SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ५४-६७ ] अकादश उत्साहः तातान्यदाऽपि तत्रैषि वेला नत्वियती लगेत् । यत् प्रगेऽद्य प्रस्थितोऽसि विकाले च समागमः ॥ ५४ तदद्य सिद्धायतने विलम्बोऽभूत् कुतः पितः । व्याजहार पिता पुत्रि सावधानं निशामय ॥५५ अस्ति स्वस्तिश्रियां धाम पुरं गगनवल्लभम् । यद् वीक्ष्य स्वः पतेर्मन्ये त्रिदिवं स्वं न वल्लभम् ॥५६ प्रज्ञप्त्यादिमहाविद्याप्रभीष्टा (?) तुलशासनः I परमार्हतराजोऽत्र राजा पवनवेगराट् ॥५७ सर्वविद्याभृतां चक्री श्रेणिद्वितयनायकः । दिवं भुवं चान्तरा यो नित्यमन्तरराजति ॥५८ तस्योपयाचितशतैः कुलदेव्याऽतितुष्टया । देवी रत्नवती पुत्ररत्नात् सत्याभिधा कृता ॥५९ तस्य जन्मनि वैताढ्यसर्वचैत्येषु चक्रिणा । अकाले यात्राकरणेऽद्यादिष्टाः खेचराः समे ॥ ६० ततोऽमुत्रासन्न सिद्धायतने महनिर्मितौ । कमलवेगादिविद्याभृतामाज्ञामदात् प्रभुः ॥ ६१ ततः पुत्रि तत्र विद्याधराणां मेलके सति । कमलवेगखचरो महोत्सवमचीकरत् ॥६२ तत्र ती स्नानगानार्चननर्तनवन्दनैः । पुनानस्य जनुर्वत्से कालक्षेपोऽद्य मेऽभवत् ॥ ६३ अन्यच्च श्वः समेतव्यमिहेत्यङ्गीकृतं समैः । अवश्यं तत्र गन्तव्यं तत् कल्येऽमुन्यनन्तरम् ॥ ६४ ततो मयाऽभाणि तात श्रान्ता विश्राम्यताधुना । ततस्ततोऽस्मि च स्वे स्वे तल्पेऽस्वपि च लीलया ॥ ६५ प्रातस्ततोहमुत्थाय युष्मत्पार्श्व समागमम् । ततोऽकाले चैत्ययात्राकारणं निश्चितं मया ॥ ६६ ततो जगाद मदनशलाका हे वयस्यिकाः । वयमपि तादृग्तीर्थनत्या स्याम निरंहसः ॥६७ ५६.३. "मन्ये. Jain Education International For Private & Personal Use Only ૨૪૨ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy