________________
२४२
लीलावतीसारे
[४०-५३ यावत् सौधोपरि परिक्रीडन्ते ताः सुनिर्भरम् । तावज्जगाद मदनशलाका विस्मयोन्मुखी ॥४० हला हला व्योम्नि दूरेऽत्यव्यक्तोऽश्रुतपूर्वकः । । कोलाहलध्वनिः कोऽपि कर्णातिथिरभून्मम ॥४१ जगौ मदनमञ्जूषा श्रुती ते भग्नि वादिते । अपरा काऽपि किमपि न शृणोत्यन्यथा कथम् ॥४२ अथ क्षणान्तरेऽन्यान्याप्यूचे किञ्चित् निशम्यते । अथ सर्वा अवदधुः शुश्रुवुश्चास्फुटं ध्वनिम् ॥४३ सम्भावनाबलज्ञाततत्तद्वयतिकराऽपरा तत्पुरवासिकुरङ्गवेगभूमतिसुन्दरी
॥४४ व्याजहार हला ज्ञातं लेशोद्देशादिदं मया । कोलाहलस्यास्य मूलं भग्नि किं श्रूयतां हलाः ॥४५ अस्त्यस्मिन्नेव वैताढये भूमीभत्युत्तमाङ्गवत् । सिद्धं कूटं तत्र चैत्यं प्रसिद्धं वः किरीटवत् ।।४६ तत्र यात्रार्थमायातां यातां विद्याभतां किल ।। दवीयस्त्वाददृश्यानामय कलकलध्वनिः ।।४७ क्षणेऽत्राभयसुन्दर्योदैर्ये तत्सखि नानृतम् । किं त्वतिप्राज्यलोकोत्थो ध्वनिरेष विजम्भते ॥४८ तादृग्जनश्च यात्रायां सा च चैत्रेऽद्य फाल्गुनः । तदन्यत् कारणं किञ्चिद् विद्याभन्मेलके वद ॥४९ मतिसुन्दर्यवग भूयो यात्रैवात्र निबन्धनम् ।। यतोऽतीतप्रदोषे मे तस्थुष्याः सौधमूर्धनि ॥५० अकस्मादेव मे तातोऽवतीर्णा व्योममण्डलात् । मया चासनदानादि तद्वेलोचितमादधे ॥५१॥ युग्मम् पित्रा गृहीताऽस्म्युत्सङ्गे ततोऽप्रच्छि मयाऽसकौ । तदा तात प्रस्थितस्येयतीवेला क्व तेऽत्यगात् ॥५२ पिताऽऽख्यत् पुत्रि जानासि सिद्धायतनमस्ति यत् ।
तात जाने तर्हि वत्से तत्राद्य प्राप्तवानहम् ॥५३ ५३.४. 'वाहन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org