________________
૨૪
२७-३९] अकादश उत्साहः
___ २५१ तथा - अर्हदाज्ञैव कोटीरं स्याद्वादो मणिकुण्डले । पुण्यश्रीरत्नतिलकस्ताम्बूलं सूनृतं वचः ॥२७ जयश्रीमणिकेयूरं दानं रत्नाङ्गुलीयकम् । हारः पञ्चनमस्कारो लीलाव्रज्यांहिभूषणम् ॥२८ यशःकीर्ती च संव्यानोपसंव्याने समन्ततः ।। तस्य राज्ञः परिष्कारभारो भारोऽपरः परम् ॥२९॥ त्रिभिर्विशेषकम् त्रिलोकसारदलिकघटितेव गतोपमा । सुधासारसंभतेवातुल्यसौभाग्यभाजनम् ॥३० शीलशालीन्यकौलीन्यसम्यक्त्वार्जवशेवधिः । देवी मदनरेखाऽभूत् तस्य खेचरभू भुजः ॥३१॥ युग्मम् तयोः श्रीकमलवेगश्रीमन्मदनरेखयोः । भुजतोः पुण्यकल्पद्रुफलं वैषयिकं सुखम् ॥३२ उपर्यनेकपुत्राणामुपयाचिततुष्टया
। कुलदेव्या द्वे प्रदत्ते उदीयाते सुते क्रमात् ॥३३॥ युग्मम् तयोर्जन्मोत्सवश्चक्रे पित्रा पुत्रोत्सवाधिकः । मदनपूर्वा मञ्जूषा शलाकेत्यभिधाऽपि च ॥३४ धात्रीभित्यिमाने ते खेल्यमाने नृपैरपि । ज्योत्स्नाज्योत्स्नेशमण्डल्याविव वृद्धिमुपेयतुः ॥३५ अधीतिन्यौ ते च सर्वकलासु निजनामवत् । यौवनं कामराजस्य मित्रं चित्रमचित्रयत् ॥३६ रूपश्रिया रतिजितौ शरज्ज्योत्स्नाजितौ त्विषा । मत्या चातिसरस्वत्यौ पार्वत्या अतिसौभगे ॥३७ क्षोभयन्त्यौ च विद्याभृत् सुरासुरमनोऽम्बुधीन् । क्रमक्रमेण जज्ञाते ते स्मरावतरोचिते ॥३८॥ युग्मम् सूर्योदयक्षणेऽन्येास्ते स्वसौधस्य मूर्धनि ।
सहारूढे वयस्याभिः खेलितुं नैकखेलनैः ॥३९ ३७.३. मात्या. ३९.१. क्षणै. Lila.-31
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org