________________
२४०
लीलावतीसारे
[१३-२६ ततः क्लिभाति कोशार्थं प्रजाः सामन्तमन्त्रिणः । अलीकषणकैर्वृत्ति पदातीनां भनक्ति च ॥१३ दण्डहीनः कोशहीनो मुक्तः सामन्तमन्त्रिभिः ।। ततो राज्याय दायादैः प्रधानैर्वा स रुध्यते ॥१४ रणायोत्तिष्ठमानोऽसौ रौद्रध्यानी बलं विना । विनाश्यते तैर्नरकं याति गीतितरोः फलम् ॥१५ ततः कुनरतिर्यक्षु गीतव्यसनतो भ्रमन् । सुमानुषत्वं लभते कथञ्चिन्मध्यमैर्गुणैः ॥१६ दृष्टान्तः पुनरत्रायं राजन् सूरः पुरोहितः । पुरोहितस्ततः सूरः सू रिमेवं व्यजिज्ञपत् ॥१७ कथकारं मया स्वामिन् श्रोत्रेन्द्रियनिबन्धनः । दुःखाम्भोधिरवगाढो ज्ञानाब्धे प्रतिपादय ॥१८ ततः सिंहमहाराज सूरेणेति निवेदिते ।। सुघोषाघोषनिर्घोषः सुधर्मस्वाम्यथाभ्यधात् ॥१९ जम्बूद्वीपेऽत्रैव वर्षे भारते भाति राजतः । भरतांतस्तिरोमानदण्डो वैताढ्यपर्वतः ॥२० तत्रोभे . बाहुवत् श्रेण्यौ नानापूरत्नभूषणे । तत्राभू दुत्तरश्रेण्यां नभआभरणं पुरम् ॥२१ यत् श्रीविद्याधरैविद्याधरीभिश्च विभास्वरम् । देवैर्देवाङ्गनाभिश्च देवलोक इवाशुभत् ॥२२ श्रीमान् कमलवेगाख्यस्तत्र विद्याधरेश्वरः । सुरेश्वर इवाभासीत् शतकोटिदपाणिकः ॥२३ साहसं यस्य पादातं सद्बोधो मन्त्रिमण्डलम् । विवेकः . सामन्तजातमास्तिक्यं बान्धवव्रजः ॥२४ सर्वाधिकारी संवेगो निर्वेदस्तु नियोगिनः । दयातत्त्वरुचिक्षान्तिमुखमन्तःपुरं तथा ॥२५ श्रीप्रज्ञप्तिमहाविद्या दृढप्रणिधिसंहतिः । नृपतिप्रक्रियामात्रं पादाताद्यपरं पुनः ॥२६॥ त्रिभिविशेषकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary org