SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ एकादश उत्साहः अथ श्रीमान् सुधर्मशः सुधर्मेशस्तुतक्रमः । श्रीविजयसेनराजमुखेभ्यः पुनरादिशत् ॥१ श्रोत्रं वः प्रीण्यते श्रोत्रस्वरूपोत्कीर्तनापथा । को न हि प्रीयतेऽसौ स्वरूपस्योत्कीर्तनादिह ॥२ असौ श्रवणहरिणो गीतिमाकर्ण्य हारिणीम् । यानपानाशनत्यागात् प्राणान्न गणयत्यपि ॥३ अखर्वगान्धर्वरागात् श्रोत्रमत्तमतङ्गजः । निबिडं बन्धमात्मानं नयते न यतः सुखम् ॥४ आदौ शृणोति गीतादि युवा कौतुकमात्रतः । सत्कलैषेति मुदितस्ततोऽभ्यस्यति गायति ॥५ क्रमक्रमात् ततश्चैष तिरस्कृत्य क्रियान्तरम् । मनुते गीतवातूलो गीतमेकं जने फलम् ॥६ चारणैर्गायकभट्टैरत्युच्चैः कृत्यवर्णितः । अनीदृशोऽपि चेदृक्षंमन्यस्तेषु धुवृक्षति ॥७ वेणुवीणामृदङ्गादिध्वनिडम्बरगर्भिताम् । गीतिहालां पिबन् मूढो हा धर्मार्थी प्रहापयेत् ॥८ वीणात्रिसरिकासारङ्गिकारावणहस्तकान् । पण्याङ्गनागानगर्भान् सुधापायं पिबत्यसौ ॥९ पानगानरसावेशात् प्रसङ्गादग्रतोऽग्रतः ।। चोक्षाचोक्षव्यवहारं हा हारयति पातकी ॥१० अथ पण्याङ्गनागीतकटाक्षस्मरसायकैः । प्रभिन्नचेता पहिलो हा महेलाः करोति ताः ॥११ गीतादिव्यसनात् तासां सर्वस्वस्यापि दायकः । मुग्धो न गणयेत् कोशक्षयं राज्यक्षयं न च ॥१२ १२.४, वरूप. ७.१. •र्गाथकै. ८.१. तारं'. ८.३. पाना' ११.१. पाना'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy