SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [१५८-१६६ ततोऽचिन्त्यधाम्ना तस्य भव्यत्वपाकतः । कषायाल्पतयाऽऽत्मीयतादृक्पापातिनिन्दया ॥१५८ आयौवनाद्दृष्टिरागदौरात्म्यपरिगर्हया तिर्यङ्नरकगत्याख्यदुर्गतिद्वारवारणात् ॥१५९ मध्यमगुणसम्पत्त्या तत्ततत्साधूपबंह [णात् ] । तत्पाठस्य परावृत्त्या स नरायुरुषार्जयत् ॥१६०॥ त्रिभिविशेषकम् क्षणाद् विपद्य कौशाम्ब्यां महापुर्यामिहैव हि । धनस्य सार्थवाहस्य धनदस्य श्रियां भरैः ॥१६१ शीललक्ष्मीसुभद्रायाः सुभद्रायाश्च योषितः । स जीवो धनदेवस्य नन्दनः समजायत ॥१६२॥ युग्मम् धनदेव इति नाम पितृभ्यां तस्य निर्ममे । प्राचीनभवतन्नाम्नः कथञ्चिच्छ्रवणादिव ॥१६३ स च त्वमेव सुमते स्वमत्येदं विभावय ।। येन स्वानुभवात् तेऽपि द्रढीयान् प्रत्ययो भवेत् ॥१६४ ईहापोहादि कुर्वन्नथ खलु धनदेवः स सार्थादिनेता जातिस्मृत्या परीतो निजजननचतुष्कं यथावद्ददर्श । श्रीसू रेन्दोः पदाब्जे न्यपतदथ ततः संयमधि किलाप्तुं विज्ञो व्यज्ञापयच्च अतितिलकभवाब्धेरितस्तारयेर्माम् ॥१६५ सुगुरुरभयदेवो भक्तिरच्छा जिनोक्ते विरतिरखिलपापाच्चेति कैवल्यहेतुः । विलसति बत सम्प्रत्यद्भुता योग्यता भोः परमवहितिहृद्य श्रूयतां श्रोत्रवृत्तम् ॥१६६ इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनाङ्के चक्षुरिन्द्रियविपाक-व्यावर्णनो नाम दशम उत्साहः * ॥ १६६.१. 'रिच्छा . १६६.४. परसव'. * ग्रं. २७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy