________________
१४५-१५७]
दशम उत्साहः
यथा - केलीगृहेऽत्रास्मि पूर्वमायास्यामि प्रिये ध्रुवम् । त्वमप्युद्यानिकाव्याजादेयाः सायं घनस्तनि ॥१४५ तच्च न्यस्तं तेन पुटयां सा च तस्याः क्षणान्तरे । समेयुष्या ददे दास्यास्तया देव्याः समर्पिता ॥१४६ देव्येकान्ते च पश्यन्ती तद्व्यलोकत पत्रकम् । मुहुर्मुहुर्वाचयन्ती यावत् तिष्ठति हर्षुला ॥१४७ अत्रान्तरे कञ्चुकिना देवी विज्ञापिता यथा । देवि देवः समैतीति मा भूदत्याकुला ततः ॥१४८ अभ्यायान्त्यास्ततो देव्या भ्रष्टं तत्पत्रकं भुवि । राज्ञा चागच्छतादाय वाचितं ही विधेविधिः ॥१४९ पप्रच्छे कमला राज्ञा किमेतदिति साऽऽकुला । जाने नास्मीत्यभ्यधत्त कि वाऽन्यद् वक्तु सा तदा ॥१५० पृष्टा दास्यः कस्य हट्टाद् गन्धानानयताधुना । ऊचुस्ता धनदेवस्य ततो राजा क्रुधाऽभ्यधात् ॥१५१ अरे रे तं दुराचारं कृत्तनाशाकरश्रुतिम् । खरमारोप्येतिदोषघोषणेन पुरान्तरे ॥१५२ भ्रमयित्वोच्चशूलायामारोपयत तत्क्षणात् । ततोऽसौ व्यङ्गिताङ्गस्तैस्तथाऽभ्रमि पुरेऽभितः ॥१५३॥ युग्मम् क्रमेण प्राप्तोऽसौ साधुप्रतिश्रयगृहाग्रतः । ददर्श तत्र च मुनीन् दान्तान् शान्तान् महात्मनः ।।१५४ अत्रान्तरे स्वयोगेनागुण्यत केन साधुना ।। तस्य तादृक्पापभाविदुर्गत्युद्धारबन्धुना ॥१५५ अरहंतनमुक्कारो जीवं मोएइ भवसहस्साओ । भावेण कीरमाणो होइ पुणो बोहिलाभाय ।।१५६ उद्गहीतं च तेनेदं वणिजा तत्त्वतृष्णजा ।
गुणयन्नेव तदसौ शूलायां हाऽधिरोपितः ॥१५७ १४५. घनस्नालि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org