________________
लीलावतीसारे
परम् ।
संशयः ॥ १०६
संगृह्यते तद्विरक्तविश्रम्भार्थमसौ राज्ञोचे साधु साधूक्तमेवमेतन्न तो यो योऽस्य पुत्रेण दूनः सोऽस्य मिलिष्यति । वश्यितोऽनेन तद्देशो भविष्यति सुखात् स्वसात् ॥ १०७ तन्न्याय्यमस्य साहाय्यमित्युक्ते भूभुजा ददुः । अमात्यास्तस्य संवाहं दुर्विगाहं सुरैरपि ॥१०८ तबलात् सबलंमन्यः सद्योऽथ घनवाहनः । गत्वाऽधाक्षीत् पुत्रदेशमभांक्षीच्च वने भवत् ॥ १०९ ये त्रिभुवनमल्लेनावज्ञाताः केऽपि ठक्कुराः । मिलितैस्तैर्जितकाशि मन्योऽभूद् घनवाहनः ॥ ११० तेषां ग्रामपुराद्याश्च लञ्चाभृशममंस्त सः । सर्वस्वेनापि तस्येष्टं तैरनिर्यातनं यतः ॥ १११ श्रीत्रिभुवनमल्लोऽथ व्यज्ञप्यत सुबुद्धिना । तदा देव पितृत्यागादित्यप्रेक्षातरोः फलम् ॥ ११२ तदुपेक्षस्व नेदानीं मेदिनीं जननीमिव । पराक्रमक्रमो राजसिंहानां हि फलेग्रहिः ॥ ११३ ततः सर्वाभिसारेण श्रीत्रिभुवनमल्लराट् । निस्वानवाचालिताशस्तं सद्योऽप्यभ्यषेणयत् ॥११४
सीनि स्थित्वा वत्सराजं दण्डराज प्रतापवत् । सपदि प्रेषयामास तं प्रति प्रतिपन्थिनम् ॥ ११५ विश्वस्यापि भयङ्करे रणभरे लग्ने तयोः सैन्ययोः
स्वस्वस्वामिकृते जयश्रियमहो प्राणैरपि क्रीणतोः । श्रीदण्डाधिपतिः प्रयुध्य स चिरं विश्वम्भरां देवतां
Jain Education International
[ १०६-११८
पर्यार्चीद् घनवाहनस्य शिरसा पाथोरुह श्रीस्पृशा ॥ ११६ ततो जयजयारावो निस्वानस्वानमेदुरः । त्रिभुवन मल्ल सैन्ये जज्ञे विश्वोदरम्भरिः ॥ ११७ नेकपञ्चेन्द्रियाघातपात केनातिकश्मलः प्रथमे नरके कुम्भीपाकेऽगाद् घनवाहनः ॥ ११८
1
For Private & Personal Use Only
www.jainelibrary.org