________________
११९-१३२]
दशम उत्साहः तत्रैकं सागरं पक्वः स शुद्धि किञ्चिदाप्तवान् । ततः कथञ्चिदायुष्कक्षयेण निरकाश्यत ॥११९ तत्रैव भारते वर्षे श्रीकाञ्चनपुरेऽथ सः । धनावहसार्थवाहधनदेव्योः सुतोऽजनि ॥१२० स क्रमाद् धनदेवाख्यः कुलोचितकलाञ्चितः । धनश्रियाश्रेष्ठिपुत्र्या पितृभ्यामुदवाह्यत ॥१२१ पूर्वजन्मभवाभ्यासाद् धनदेवः स पुनवः । दृगनश्यया समाकृष्टो भ्राम्यन् प्रेक्षणकादिषु ॥१२२ अतिशाद्वलरूपासु नवतारुण्यभूमिषु । तरुणीषु विशश्राम कामं कामवशंवदः ॥१२३॥ युग्मम् मठे देवकुले राजकुले श्रीराजवर्त्मनि । रमणीरूपचकितो नाज्ञासीत् कृत्यमात्मनः ॥१२४ अन्यदा तेन ददृशे नवयौवनशालिनी । सुरूपा रत्नाभरणालङ्कृता लङपुत्रिका ॥१२५ तस्यामध्युपपन्नोऽसौ चूतलुम्व्यां यथा शुकः । । तां भूरिभूरिणाऽयाचन्नापत् तत्तोलितामपि ॥१२६ त्वमस्माभिर्मिलसि चेत् तत् तवैषा भवेत् परम् । तत् प्रतिश्रुत्य सोऽत्याक्षीत् सर्व पितृकुलादिकम् ॥१२७ गीतनृत्यादि तत्पार्श्वऽभ्यस्य जातो महानटः । तां गौरी प्राप्तवांश्चक्रे धनदप्रीतिमन्वहम् ॥१२८ अन्यदा विजयपुयीं सुधर्मक्ष्मापतेः प्रियाम् । निरीक्ष्य कमलादेवी नटी सोऽमस्त मर्कटीम् ॥१२९ गृहीत्वा स्वं वियुज्यभ्यः पुर्ण तत्र स्थितोऽमृशत् ।। मेलकः कमलादेव्या देव्येव मम दुर्लभः ॥१३० दुःसाधमभ्युपायेन सुसाधं वा विपश्चिताम् । आकृष्यन्ते ह्युपायेन दिवोऽपि हि दिवौकसः ॥१३१ निश्चित्येति नृपावासासन्नसौरभिकापणे । गृहीत्वाऽट्ट धनदेवोऽपणायत् कुङ्कुमादिकम् ॥१३२ . . :
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org