SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ९३-१०५] दशम उत्साहः २३ कि विस्मृतं वः पापेनामुना वयमुपद्रुताः । कृतप्रतिकृतं शीघ्रं कुरुतास्य दुरात्मनः ॥९३ व्यज्ञप्यमात्यैः स्वगृहमागतस्य द्विषोऽपि न ।' कुलीनः प्रहरेद् देव त[द]दृष्टः प्रयात्वसौ ॥९४ राज्ञा प्रतिश्रुते तत्र तैर्दत्वोचितशम्बलम् । विसृष्टोऽसौ तदुपरि रुष्टो जयपुरं गतः ॥९५ राज्ञो विजयसेनस्य ज्ञापितं धनवाहनः । त्वां दिदृक्षुस्ततस्तेन प्रधानानामितीरितम् ॥९६ निष्काशितोऽत्रागतोयमेतद्वाराऽस्य नन्दनम् ।। निगृह्णीमोऽभाण्यमात्यैः सुप्तोऽहिर्बोध्यते न हि ॥९७ देव चेत् तद्ग्रहेच्छा वस्तदेतेन विनाऽपि हि । तं गृहाण किमूनं ते नृपोऽवम् नीतिरीक्ष्यताम् ॥९८ उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।। पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥९९ ततः प्रधानैर्मानिते प्रावेशि धनवाहनः । सन्मान्याभिदधे किं ते समागमनकारणम् ॥१०० घनवाहन आचख्यावेकान्ते कीर्तयिष्यते । ततो राज्ञा वासगृहं व्ययस्वं चास्य दापितम् ॥१०१ राज्ञाऽऽदिष्टा रहः श्रोतुं मन्त्रिणोऽगुस्तदन्तिके । ततो रहस्युपविश्य व्याजहे घनवाहनः ॥१०२ सर्वेऽपि करिणः शुल्कस्थानानि बहुधा कराः । राज्ञो विजयसेनस्याहं त्वेतस्य पदातिकः ॥१०३ प्रसद्य दापयत्वेकं मम राज्यं यथा तथा । तच्च प्रधानैरागत्य सर्व राज्ञे न्यवेद्यत ॥१०४ राजाऽऽख्यत् किं मतं वोऽत्र धवलो मन्त्र्यथावदत् ।' देवस्तद्राज्यमादातुं समर्थः स्वयमेव हि ॥१०५ ९५.४. जयदुर. १००.१ मनिते. Lila.-30 Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy