SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ [८०-९१ २३२ लीलावतीसारे श्रीत्रिभुवनमल्लोऽथ दानशौण्डोऽभ्युदैन्नृपः । हस्तिमल्लप्रतिमल्लः प्रतापेनार्कसोदरः ॥८० ततः सचिवसामन्तक्लप्तनीतिपराक्रमैः । श्रीत्रिभुवनमल्लोऽभूदेकमल्लो जगत्यपि ॥८१ घनवाहनभूपेनान्यदा तागदशास्पृशा । भाणिता मन्त्रिणो गत्वा तीर्थे स्वं साधयाम्यहम् ॥८२ तैश्च तद्भू भुजः प्रोचे तेनोचे किमिहोचितम् । देवात्रैव हि यत् कृत्यं कुर्यात् तीर्थगमो वृथा ॥८३ राज्ञोक्तं हेतुना केन देव क्लीबोऽयमक्षमः ।। तीर्थे मर्तु वध्यमानोऽन्यथाऽधात् किं न पौरुषम् ॥८४ किञ्च - करिष्यति मृतोऽसौ किं तिष्ठत्वत्रैव धर्मकृत् । अपि च द्विगृहे भिक्षुः श्रीदेवं लघयिष्यति ॥८५ अन्यच्च वैरिमिलितो मा धात् किमपि विड्वरम् । राज्ञोक्तं को मया साध कर्तुमीशोऽस्ति विड्वरम् ॥८६ किञ्च - पृच्छतैतं कुतो हेतो देव तीर्थे मुमूर्षसि । पृष्ठश्च तैः सदम्भेनाभिदधे धर्महेतवे ॥८७ मन्त्रिणोऽभ्यधुरत्रैव धर्म दानादिकं कुरु । सोऽब्रूत रे दुराचारा धर्म तीर्थ विना कुतः ॥८८ तदुक्तं ते राज्ञ ऊचे राजाऽपि व्याजहार तान् । मुञ्चतैनं स्वैरमेतु स्वशक्ति चैष पश्यतु ॥८९ ततोऽमात्यैर्जरतोऽश्वान् शंबलं च प्रदाय सः । मुक्तो जगाम समरसेनस्य स्वरिपोर्गृहे ॥९० द्वारे स्थित्वा भाणितं च यथा त्वां धनवाहनः । दिदृक्षते ततोऽसौ तच्छृत्वा क्रुद्धोऽब्रवीन्निजान् ॥९१ आसन्नस्य रिपोर्मूलान्यनुच्छिद्य शयीत यः । असौ प्राप्तोदयात् तस्माद् ध्रुवमेव विनश्यति ॥९२ ८०.२. •भ्युदैर्नृपः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy