________________
६६-७९]
२३१
दशम उत्साहः तदमी मन्त्रिणः सर्वे विवदन्तेऽत्र भूरिशः । तद्देवो वक्तु को नाम कुमारो राज्यभाजनम् ॥६६ घनवाहनभूपोऽवग विवादः कुत एष वः । ऊचेऽमात्यैः परीहासात् ततोऽब्रूत नरेश्वरः ॥६७ कः कस्य पक्षो वो मध्ये त ऊचुः पौरुषं मतम् ।। सुबुद्धयादेव देवगुर्वादेः पुण्यमेव हि ॥६८ ततश्च चिन्तयाञ्चक्रे घनवाहनभू भुजा । एवमन्यापदेशेन मामप्येतेऽनुशासति ॥६९ अयेऽमी सुन्दरा नैवायाताः केनापि हेतुना । हुं नटीकारणादेते घटिताः कूटचेतसः ॥७० घटन्तां सर्व एवैते मन्त्रयन्तां च किञ्चन । नटी दृष्टिसुधावृष्टि त्यक्ष्याम्येतद्भयान्न हि ॥७१ केऽमी वराकाः सचिवाः कश्चाहं घनवाह्ननः । तदमी फेरवः सत्यं भेषयन्ति मृगाधिपम् ॥७२ इत्थं विमृश्य धात्रीशस्तानूचे नावधारितम् । मया भवत्प्रलपितं निश्चिनुध्वं ततः स्वयम् ॥७३ . दध्ये ततश्च सचिवैरये ज्ञातास्मदाशयः । क्रुद्धो द्रोग्धुमनाश्चैष प्रतिकार्यो द्रुतं ततः ॥७४ विमृश्येति तत्प्रसत्त्यै विधाय च कथान्तरम् । स्वस्थानं सचिवा ईयुश्चिकीर्षितकृतत्वराः ॥७५ नटीविनटितो राजा हितं न हि शृणोत्यपि । राज्यारिश्चेति निग्राह्यः सामन्तानिति तेऽभ्यधुः ॥७६ त ऊचुर्वयमेतेन धूलेरपि लघूकृताः । युष्मभियाऽकार्म नेदं युप्मदुक्तकृतः परम् ॥७७ कृतैकमत्यैः सामन्तामात्यैर्भूपाङ्गजोऽपि च । परमार्थ निवेद्याशु विदधे स्ववशंवदः ॥७८ ततो मध्यंदिनेऽन्येधुरेकाकी धनवाहनः । बबन्धेऽमात्यसामन्तैश्चिक्षिपे दारुधाम्नि च ॥७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org