________________
लीलावतीसारे पुत्रोऽवक् प्राक्कृतं कर्मेति कृत्वा संकथां क्षणम् । विसृष्टो जयसिंहोऽथाकारितो जयमङ्गलः ॥५२..। समागतः स सहसा राज्ञा दापितमासनम् । तातं नत्वाऽऽसनं स्पृष्ट्वा पाणिनासिष्ट भुव्यसौ ॥५३ सहर्पमथ राज्ञोचे वत्सासनमलङ्कुरु । सोऽवोचद्देवपादानां पुरतो भूर्ममासनम् ॥५४ राज्ञोक्तश्च विनोदेन केन वत्साधुना स्थितः ।। सोऽवक तात राजनीतिरहस्यपरिशीलनैः ॥५५ राजाऽवोचत पुत्र त्वं सोमालो न श्रमोचिसः । स्मित्वाऽऽह पुत्रः किं तर्हि नीतिमध्यापितः पितः ॥५६ नृपोऽवक किं फलं नीते राज्यश्रीपालनं पितः । राज्यस्य किं फलं पुत्र तात धर्मस्य साधनम् ॥५७ धर्मस्य साधनं वत्स देवार्चाव्रतधारणे । तात राजरक्षिताः स्युतिदेवतदर्चकाः ॥५८ : राजाऽऽख्यत् पुत्र राज्यस्य फलं विषयसेवनम् । राज्ञो विषयिणस्तात राज्यश्रीः कथमेधते ॥५९ वत्स पुण्येन राज्यश्रीनश्येद् विषयिणः कथम् । देव पौरुषहीनस्यासम्भवी पुण्यसम्भवः ॥६० नीतिः का पुत्र राज्यश्रीपालिका तात कथ्यते ।। सामन्तानामविश्वासो विषयासक्तिवर्जनम् ॥६१ निष्फलत्यागत्यागश्च मन्त्रिमन्त्रोपजीवनम् । नित्योद्योगो रथाश्वेभपत्तिनित्यनिरीक्षणम् ॥६२ प्रातिवेशिकसजेभ्यः प्रीतिः परतरैः सह । . नित्यं च चरचक्षुभिः प्रतिवेश्युपलम्भनम् ॥६३ सद्भावोक्तिर्मन्त्रिणां न सामन्तोत्कर्षवर्जनम् । ... पौरमानः . क्रोधमानमायालोभविनिग्रहः ॥६४
तभूतपरीहारो निद्रानाद्विषज्जयः । .... इति नीतिस्तात राज्योद्यानपीयूषसारणिः ॥६५॥ पञ्चभिः कुलकम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org