________________
३८-५१]
२२९
दशम उत्साहः सुबुद्धिरभ्यधत्ताथ ज्ञास्यतीदं नृपो यदि । तदा न नः प्राणरक्षा यदेष विषमोऽधिकम् ॥३८ ततो विमलमतिनाऽभिदधे भैष्ट मा मुधा । स्वयं विज्ञप्यते स्वामी चेत् तां त्यक्ष्यति तच्छुभम् ॥३९ न चेत् तदाऽसौ चतुर्थोपायसाध्यो भविष्यति । सर्वे विरक्ताः सामन्ता अत्रेत्येतन्न दुष्करम् ॥४० इत्यैकमत्यान्निश्चित्य मिथो अन्थिग्रहः कृतः । प्राप्ताश्च ते भूपपार्श्वेऽवग मन्त्रीमतिशेखरः ॥४१ एकमाख्यानकं देव प्रभोविज्ञप्यमस्ति नः । निशामयतु तत् स्वामी विधायावहितं मनः ॥४२ घनवाहनभूमीश आख्यादाख्याहि धीनिधे । ततो भणितुमारेमे मन्त्री श्रीमतिशेखरः ॥४३ श्रीवसन्तपुरे जज्ञे जितशत्रुर्महीपतिः । सुदर्शनास्य देव्याद्या द्वितीया प्रियदर्शना ॥४४ जयसिंहः सुतोऽग्याया अन्यस्या जयमङ्गलः । तौ च जातौ कलाम्भोधी राज्योचितवपुलतौ ॥४५ उभाभ्यामपि देवीभ्यां स्वस्य स्वस्याङ्गजन्मनः । राजा राज्याभिषेकाय व्यज्ञप्यत ततोऽन्यदा ॥४६ पृथ्वीपतिरथाभाणीद् युवां द्वे अपि मे प्रिये । तद्वत् प्रियौ सुतावेतौ कलाकूपारपारगौ ॥४७ तयोः श्रेयस्तरो यस्तु स्थापयिष्यामि तं पदे । युष्मत्समक्षं परीक्षां कुर्वे सर्वेप्सितं ह्यदः ॥४८ आहूतो जयसिंहोऽथ स चायातस्तदैव हि । राज्ञोक्तश्च विनोदेन केन पुत्राधुना स्थितः ॥४९ सोऽवक प्रेक्षाविनोदेन सारं किं पुत्र जन्मनः । तेनोचे देव राजश्रीस्तस्याः सारं च पुत्र किम् ॥५० पञ्चप्रकारविषयसेवनं तात नापरम् । उचे राजा राज्यलक्ष्म्याः साधनं वत्स किं ननु ॥५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org