________________
२२८
लीलावतीसारे
[२४-३७ विघ्नं युवचकोराणां च ज्योत्स्ना प्रलिलिक्षताम् । स्वमुत्तरीयं मुक्त्वाऽसौ लास्यं प्राक्रमत स्वयम् ॥२४ यत्रोमाप्यनुमा यत्र नाट्यवेदश्च तुच्छवाक् ।। यत् स्तम्भनं विश्वदृशां जैत्रं तन्त्रं स्मरस्य यत् ॥२५ तदङ्गहारकरणचारीचरणचञ्चुरम् उद्यत्कटाक्षपुष्पासौ तत्र नृत्तमवर्तयत् ॥२६॥ युग्मम् तस्या रूपकलावाग्भिनिनिमेषनिरीक्षणः । शतकोटिदतामिच्छुः सत्योऽभूद् घनवाहनः ॥२७ न केवलं वपुर्वाचोस्तद्विद्याभिः सभासदाम् । मनःकपेरपि चिरं स्तम्भमुद्रा व्यजम्भत ॥२८ ततो राजा ददे तस्या अधिकं पारितोषिकम् ।। सामन्तामात्यपौरा अप्युचिताभ्यधिकं ददुः ॥२९ ततश्च पूर्वालेऽपराह्ने प्रदोषेऽथ महानिशि । राजा मुहुर्नवमिवागापयत् तामनर्तयत् ॥३० दिव्यं भोज्याङ्गरागादि दिव्यं भूषांशुकादि च । स्वतोऽधिकं प्रतिदिनं तस्यै प्रादान्नरेश्वरः ॥३१ तस्या ददानः स्वर्णादिमनीषितमनेकशः । न पश्चान्नाग्रतः पश्यत्यक्षिरागान्धवन्नृपः ॥३२ तत ऊचे मिथोऽमात्यै राज्यमेतद् विनंक्ष्यति । यतः कोशक्षये राज्ञो भावी तन्त्रक्षयो ध्रुवम् ॥३३ तत्क्षयेऽरिपराभूतिस्ततो जनपदक्षयः । सतः , सामन्तमुक्तस्य भाविनी वनवासिता ॥३४
अस्यां पद्यामिव नद्यां राड् नीलीरागतां गतः । .न. निवर्तयितुं शक्यः किं कार्य साम्प्रतं ततः ॥३५ यतः - गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न चार्थस्य । रसिकत्वेनाकुलिता. वेश्यापतयश्च कवयश्च ॥३६ आख्यद् यशस्करामात्यः सर्वानर्थखनिर्नटी ।। एतां विषादिना हिंस्तानी न स्याद् यतः क्वचित् ॥३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org