________________
११-२३]
दशम उत्साहः
तदवश्येऽस्मिन्नवश्यं दुर्गतिर्देहिनां भवेत् । यथाऽस्य धनदेवस्य सुभद्राकुक्षिजन्मनः ॥ ११ धनदेवस्ततोऽवादीच्चक्षुः प्रत्ययतः कथम् । भवेऽभ्राम्यमहं स्वामिन् प्रसद्य प्रतिपादय ॥ १२ ततः धर्मा सौधर्माधिपसंसेव्यसन्निधिः । सन्निधिर्ज्ञानरत्नानां जगाद शृणु सम्प्रति ॥ १३ श्री पुष्करवरद्वीपे प्रत्यक् स्वर्णाद्रिसंयुज ।
भारते मध्यमे खण्डेऽभूत् काञ्चनपुरं पुरम् ॥ १४ प्राकारः काञ्चनो यत्र संक्रान्तः परिखाम्भसि ।
बिभृते काञ्चनाम्भोजश्रियं काञ्चन शाश्वतीम् ॥१५ ऐश्वर्यतर्जितधनवाहनो घनवाहनः । तत्र राज्यं प्रशशास स्फुरद्दम्भोलिपाणिकः ॥१६ रम्भा गर्भसगर्भोरु रम्भादेव्यस्य वल्लभा । वल्लभा सर्वतो यस्या लज्जा शीलश्रियाः सखी ॥ १७ स च राजा स्वभावेन चक्षुश्वरनिवेदिताः । प्रतिप्रतीकं लावण्यपुण्याङ्गीः पश्यति स्त्रियः ॥ १८ विचित्रनायिकाचित्रशालिकाश्चित्रशालिकाः 1 प्रतिस्तम्भं दन्त दारुपुत्रिका अप्यकारयत् । १९ पृष्ठतः पार्श्वतोऽग्रे च सर्वतोऽप्यननासखः । स नारीकुञ्जर इव विरेजे राजकुञ्जरः ॥२० अन्येद्युर्धुसदां प्रभोरिव नटास्तत्रागता उद्भटा
स्तैः श्रीमान् घनवाहनो नरपतिः प्रेक्षाक्षणं याचितः । तेनाऽप्यद्भुतनाट्यकौशलकलाला म्पट्यपट्वात्मना
सामन्तैः सचिवैः पुरीवरनरैः सार्धं मुदाऽदीयत ॥२१ नादयन्तोऽथ ब्रह्माण्डं तौर्थिकाः समहस्तकैः । तूर्याण्यवादयन्नृत्ता नर्तक्यः पक्षसारिकाः ॥२२ मूलपात्रं कामदत्ता ततो
सभासदां
हृदि
२२.१. वादयंतो.
Jain Education International
रङ्गमवातरत् ।
पुनस्तद्दिदृक्षामनोरथः ॥ २३
For Private & Personal Use Only
www.jainelibrary.org