SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ दशम उत्साहः श्रीसुधर्मामुनिराजो व्याजहार पुरन्दरम् । प्रव्राजयिष्यसे सौम्य क्षणं चक्षुर्गतिं शृणु ॥१ अयमात्मा विपरीतशिक्षेणेक्षणवाजिना । आदौ स्वदारसर्वाङ्गोपाङ्गमार्गस्थितिस्पृशा ॥२ पश्चात् पण्याङ्गनागात्रविलासापथयायिना । ततः परकलत्रादिकापथप्रस्थितिश्रिता ॥३ अथ कुत्सितनट्यादिलीलाविपथगामिना । परस्तान् मन्त्रिसामन्तराप्रियाप्रान्तरव्रजा ॥४ ततोऽपि स्वेच्छपानादिकान्ताकान्तारधारिणा । अधिकाधिकवेगेन पात्यते नरकावटे ॥५॥ चतुभिः कलापकम् किञ्च - स्वर्णरूप्यचित्रलेप्यदाश्मादिमयीष्वपि । स्त्रीष्वक्ष्णा भ्रमितो मूढो मुधा पापेन लिप्यते ॥६ आस्तां स्त्रीरूपमन्यच्च रमणीयं गृहादिकम् । चक्षुषा दर्शितं दृष्ट्वाऽप्ययमात्माऽतिमुह्यति ॥७ अपि च - गन्धादयो हि विषयाः संवेद्यन्ते कदाचन । कदाचन ततोऽवश्यं विकारायेन्द्रियान्तरम् ॥८ उन्मीलितं तु चक्षुश्चेत् पश्यत्येव शुभाशुभम् । रागद्वेषौ ततस्तस्माच्चक्षुरक्षीणशक्तिकम् ॥९ किं बहुना - न तथा स्वान्तरं वश्यावश्यं स्याद् गुणदोषकृत् । यथा चक्षुस्ततस्तेषु प्रधानमिदमेव हि ॥१० ७.२. गृहाधिकं. ९.१. उन्मालितं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy