________________
૨૨૨
लीलावतीसारे
[१९०-२०३ न विश्वसितं तस्यैष मैष वक्तीति मायया । ततो वैद्येन सोऽभाणि किमित्येवं व्यवस्यसि ॥१९० ऊचे पुरोधा आनेष्येऽरिसिंहं प्राच्यभूपतिम् । अविश्रब्धोऽब्रूत वैद्योऽमुमेवोपास्स्व तेन किम् ॥१९१ पुरोहितोऽवददेष प्रत्यनीको ममाधिकम् । तवैर्यसौ मया मार्यो घातुकेनापि निश्चितम् ॥१९२ वैद्योऽभ्यधादरिसिंहो जानासि क्वापि तिष्ठति । धूर्तोऽब्रूत तस्य पार्श्वे यान्त्यायान्ति नरा मम ॥१९३ आख्यद् वैद्यो राविरुद्धमिति मे नाभिधाः सखे । मा भैषी वैद्य यदिदं बहुसामन्तसम्मतम् ॥१९४ चेद् ब्रूषे तांस्तदा सर्वानानयामि तवान्तिके । भिषग् जगौ ममानेन राज्ञा किन्नु विनाशितम् ॥१९५ उपद्रुता यदि यूयं ततोऽहं किङ्करोग्यदः । आख्यद् धूताऽरिसिंहो राट् तव राज्यं प्रदास्यति ॥१९६ वैद्योऽवादीत् तान् मनुष्यान् मम तावत् प्रदर्शय । ततः सम्यग् विचार्याहं भणिष्यामि यथोचितम् ॥१९७ शिक्षयित्वा केऽपि नरास्त तस्तस्य पुरोधसा । आनीतास्तैश्च वैद्योऽसावुक्तो राजा दिशत्यदः ॥१९८ चक्रेन किञ्चिदादिष्टं सोऽवक किञ्चिन्न वेदम्यहम् । तैरूचे वक्षि किं मिथ्या यन्नटस्त्वं च राण्नरौ ॥१९९ ततो विहस्य तेनोचे समादिशति किं प्रभुः । शिक्षितैस्तैरभाण्येवं तत्कार्य साधय द्रतम् ॥२०० ऊचे वैद्यः कृतोपायो वर्ते सिद्धिस्तु दैवतः । केशग्राहं गृहीत्वाथ तैः सोऽपात्यत भूतले ॥२०१ बध्वा नीतः पुरो राज्ञस्तदुक्तं च न्यवेदि तैः । राज्ञा सरोषमूचेऽसौ सत्योक्तौ तेऽस्ति जीवितम् ॥२०२ मृत्युभीत्या तेन सर्वमूचे राज्ञा विगोप्य सः । खरारोपपुरभ्रान्त्यादिना निर्विषयीकृतः ॥२०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org