________________
२०४-२१४] नवम उत्साहः
२२३ नटवत् सोऽपि कृष्णास्योऽरिसिंहान्तिकमागमत् । मिथस्ते व्यमृशन् कार्य कार्य किमघुना ननु ॥२०४ नटोऽवग् विवररससिद्ध्या कृत्वा महद् बलम् । राज्यमुद्दाल्यते तस्माद् यथा लोप्नं मलिम्लुचात् ॥२०५ राजाऽऽख्यद् रससिद्धिर्मे सिद्धवास्ति ततश्च ते । भूरिस्वर्ण समुत्पाद्य चतुरङ्गां चमू व्यधुः ॥२०६ कृत्वा कोशं महा चम्बा स्वराज्यग्रहहेतवे । अरिसिंह: सिंह इव प्रतस्थे स्वां पुरीं प्रति ॥२०७ तमागच्छन्तमाकर्ण्य केसरीवारिकेसरी ।
सद्यः सर्वाभिसारेण प्रतिपेदेऽभ्यमित्रताम् ॥२०८ संलग्ने प्रधने द्वयोरपि तयोनिदैन्ययोः सैन्ययोः
दत्वाऽऽदाय च न प्रहारमभितोऽतृप्यन् भटाः कामिवत् । हस्तिभ्यामभियुज्य संयति चतुर्दन्ते समासू त्रिते
शस्त्राशस्रिकथां हहा पितृसुतावेतौ चिरं चक्रतुः ॥२०९ क्रोधेनान्धतमोऽरिकेसरीनृपो हस्तीन्द्रसत्कोष्ठकात्
कुन्ताग्रेण कृतान्तदन्तततिवत् तीक्ष्णेन भीप्मेन च । अत्युच्चैः समुदक्षिपत् स्वपितरं किन्त्वैष रौद्राशयात्
कष्टं कष्टतमे जगाम नरके पातालकूपे किल ॥२१० नश्यमान तच्च पितृशिबिरं भयकातरम् । धीरयित्वाऽऽददे राट् स पितृश्रीः पुत्रमेति यत् ॥२११ स चारिसिंहो नृपतिरत्रैव घ्राणलौल्यतः । राज्यभ्रंशादि संप्राप परत्र नरकं पुनः ॥२१२ नरके प्रथमे तत्र सागरं दुःखसागरम् ।
विगाह्याजनि कृष्णाहिर्भीषणो मलयाचले ॥२१३ यस्मिश्चन्दनभूरुहां परमहो एकातपत्रं पदं
यस्मिन् किन्नरगीतयः श्रुतिसुधाः स्तभ्नन्ति खे खेचरान् । यत्सौरभ्यरमां प्रगृह्य मरुतो विस्मापयन्ते दिशः
श्लिष्यन्ते बत यत्र चन्दनलता नैकैर्भुजङ्गैः समम् ॥२१४
२०८.४. मिथ्यताम् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org