SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २२१ १७६-१८९] नवम उत्साहः अये सचिवसामन्ताः समन्ताद् यूयमीक्षिताः । परं पीयूषवत् क्वापि न विकारो व्यलोक्यत ॥१७६ अहो, वः शेमुषी काऽपि गम्भीरा सागरादपि । इत्थं निर्मथने सोऽपि विकृति याति नत्वियम् ॥१७७ लोकोत्तरं किमप्येतदैक्यमत्यं भवादृशाम् । सर्वेषां विदुषां चैका धीरित्याभाणकः स्फुटः ॥१७८ सर्वाङ्गीणां स्वामिभक्तिदेवीमर्चयितुं किल । सर्वाङ्गीणमलङ्कारं तेभ्यः प्रीतः प्रभुर्ददौ ॥१७९ जीविकां द्विगुणां चक्रे तेषां तुष्टः प्रजापतिः । ईदृशां सुप्रधानानामक्षयित्वमपीष्यते ॥१८० स तु धन्वन्तरिर्वेद्यो नटवद् विजयां पुरीम् । प्राप पृथ्वीपतिं चैतमुपतस्थे स्वविद्यया ॥१८१ प्रसादपात्रद्वारा चासन्ना सेवा नृपेऽभवत् । राज्ञश्चाजीर्णदोषेणापाटवं ससृजेऽन्यदा ॥१८२ स चानिवृत्तेऽपि दोषे राज्ञः पथ्यमदापयत् । राजवैद्यैस्तन्निषिद्धं तच्च व्यज्ञायि मन्त्रिभिः ॥१८३ दध्ये च तैः परीक्ष्योऽयं किमज्ञोऽथारिगृह्यकः । राजा व्यज्ञाप्यथामात्यैवेद्योऽयं नो न सम्मतः ॥१८४ किमेष तातगृह्योऽथाविज्ञ एव चिकित्सति । । परीक्ष्यस्तदयं देव सोऽवक् कथं परीक्ष्यते ॥१८५ देव केनापि विश्वास्य भाण्यते सो नृपं यदि । विषादिना हंसि तदा तुभ्यं स्वर्णमियद्ददे ॥१८६ चेदभ्युपैप्यति तदा ज्ञास्यते तातगृह्यकः । राजाऽऽख्यल्लोभतोऽन्योऽपि मन्त्रिन्नङ्गीकरोत्यदः ॥१८७ सत्यं देव तथाऽप्येष ज्ञास्यते वचनच्छलात् । ततः पुरोधसा सम्यक शिक्षितेन स भाणितः ॥१८८ धन्वन्तरिस्ततोऽवादीन् मा वादीरिति मे पुरः । इयद्दास्ये तव स्वर्ण कुरु वैद्य ममोदितम् ।।१८९ १७७.१. शेमुखी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy