________________
२२०
लीलावतीसारे
ततो भूपेनाभिदधे भो भोः सामन्तमन्त्रिणः । किमेष पक्षो वोsपीष्टो न्याय ः सर्वेप्सितः प्रभो ॥ १६२ राजा सरोषमाचष्ट कीदृग् न्यायोऽयमुच्यते । यद् वाऽवामानि युष्माभिस्तातस्तद् बिभिथामुतः ॥ १६३ सुरसूरिरथामात्यः पृथ्वीनाथ व्यजिज्ञपत् । तिर्यङ्मात्रमिहोन्मिण्ठो दुःखमालान्यते करी ॥१६४ नरसिंहस्य देवस्य स्वच्छन्दस्य किमुच्यताम् । परं वाच्यं हितं भृत्यैर्भावि देवकृतं पुनः ॥ १६५ तच्च प्रवेदितं तावत् स्वामिनो हितचिन्तकैः । स्वामिरुच्यं तु दुर्दैवप्रेलितं को निषेधतु ॥ १६६ केवलं तत्र नास्माकं स्वामिन्ननु मतिः क्वचित् । यच्चावमानितस्तातोऽत्र प्रमाणं प्रभुः पुनः ॥ १६७ तदत्र कार्येन वयं प्रष्टव्याः स्वामिनाऽधुना । सिद्धमेवोपदेष्टव्यं पुण्यसृष्टं भविष्यति ॥ १६८ किं भविष्यति राज्ञोक्ते देवो जानाति के वयम् । किन्तु कर्तव्यमस्माकं स्वाभिना देश्यमञ्जसा ॥ १६९ आदिदेश ततो राजा तातमानयत द्रुतम् । देव को यातु राजोचे यस्योत्साहः प्रसर्पति ॥ १७० कस्योत्साहो न देवाज्ञादेवताराधने प्रभो । तद् यस्य योग्यता तत्र स्वामी तस्य प्रसीदतु ॥ १७१ राजाSSख्यत् कीदृशा यूयं निष्ठुराः कृतघातिनः ।
ये न स्मरन्ति तातस्य प्रसादान् प्रत्यहं कृतान् ॥ १७२ देवासतां तातकृताश्चिरकालतिरोहिताः ।
नैव स्मरिष्यन्ति देव कृतानपि हितानमी ॥ १७३ यतो वयं पट्टभक्ता भक्ता न पुरुषे पुनः । यो यदा पट्टमध्यास्ते तस्यैव हितचिन्तकाः ॥१७४ मोदमाद्यन्मनोम्भोधिर्विकसन्नेत्रपङ्कजः कान्तिकल्लोलितास्येन्दुः स राजेन्दुस्ततोऽवदत् ॥१७५ १७५.१. भेद्यन्.
I
१७१.४. तस्या.
Jain Education International
For Private & Personal Use Only
[ १६२-१७५
www.jainelibrary.org