________________
१४८-१६१]
नवम उत्साहः
२१९
यतः - चेद् विश्रब्धः प्रधानानां राजा व्याजान् वितन्वताम् । मृगयूनां मृग इव तदाऽवश्यं विनश्यति ॥१४८ अथाह नृपतिर्मन्त्रिस्ताते राज्यधुरन्धरे । न मेऽभूज्जात्वकल्याणं तदेतदुचितं न हि ॥१४९ किञ्च लोके साधुवादः पितू राज्यसमर्पणात् । तातस्यानन्तरं राज्यं ममावश्यं क्रमागतम् ॥१५० सचिवोऽवोचत विभो राजनीतिरियं न हि । यदि स्वामी प्रियतातस्तत्रैव प्रातु(?) तत्प्रियम् ॥१५१ तातस्यानन्तरं राज्यं तवैवेति न निश्चितम् । प्रियदेव्यङ्गजः प्रायः कुमारो भू भुजां प्रियः ॥१५२ तत्र राज्ये निविष्टे च चेद् विधास्यसि विड्वरम् । तदिदानीमेव देव राज्यं त्याज्यं न सर्वथा ॥१५३ नृपोऽथावत शृणुत भोः भोः सामन्तमन्त्रिणः । मृतस्यापि पितुः पिण्डा दीयन्ते कुलपुत्रकैः ॥१५४ यस्य सर्वधिपूर्णस्य जीवन्नेव पिता पुनः । भिक्षते परगेहेषु कुलीनः स कथं भुवि ॥१५५ देवरक्षितनामाऽथ मुग्धः सामन्तनन्दनः ।। समीचीनं वक्ति देव एवमेवैतदित्यवक् ॥१५६ ततः कृतकतोषेणारिकेसरिमहीभुजा । सर्वः स्वाङ्गपरिष्कारो ददेऽस्मै पारितोषिकम् ॥१५७ तत्पिता देवराजोऽथ दध्यौ कार्य विनाशितम् । हहाऽमुना यन्नृपोऽस्मद्भावमेवं परीक्षते ॥१५८ सामन्तेन ततः पुत्रोऽभाण्यन्यायं प्रशस्य रे । नृपप्रसादं गृह्णासि राजनीति न बुध्यसे ॥१५९ देवस्तुष्यतु वा मा वा नीतिरेव प्रशस्यते । नीतिस्त्वन्यादृशी लोके नृपाणां पुनरन्यथा ॥१६० मद्दपथादपसरादत्से चेत् पारितोषिकम् ।।
भीतभीतेन तेनाथ तन्मुक्त दन्दशूकवत् ॥१६१ १५७.३. परिवारो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org