________________
लीलावतीसारे
[१३५-१४७ स तैरूचे प्रभोऽस्माकं तं सद्योऽपि जिघांसताम् ।। किन्तु देवाकीर्तिभीत्या प्रच्छन्नं तच्चिकीर्षताम् ॥१३५ कथञ्चित् ज्ञातवृत्तान्तो नटो नंष्ट्वा क्वचिद्ययौ । यत एते महाधूर्ता आकारेङ्गितवेदिनः ॥१३६॥ युग्मम् व्यापाद्यते किमित्येष राज्ञोक्ते मन्त्रिभिर्जगे । पापोऽयं भेदकारी नो जलकान्त इवाम्भसाम् ॥१३७ किं न श्रुतं स्वामिना यत् पुत्रं सामन्तमन्त्रिणः । पत्तींश्चाश्रित्य तेनोक्तं ततो वध्यतमोऽसकौ ॥१३८ राज्ञोक्तं भोः क्वचित् तातः कुशली वर्तते किमु । तैरूचेऽनुमितोऽस्तीति नटोक्तिः साऽन्यथा कथम् ॥१३९ ततोऽरिकेसरी राजा साशकं दध्यिवानिति । न ज्ञायते नटे तस्मिन्नेते किमपि चक्रिरे ॥१४० गूढाभिसन्ध्यथाचष्ट गम्भीरं धीरधीनृपः । भवद्भिर्न कृतं सुष्टु यदसौ मे न मेलितः ॥१४१ यतस्तन्मुखतस्तातोदन्ते सम्यग विनिश्चिते । राज्यं च प्रापिते ताते स्यान्मे सत्पुत्रधुर्यता ॥१४२ श्रीताते च राज्यभाजि मम राज्यमसंशयम् । तदन्विष्यानीय तातं राज्ये स्थापयत द्रुतम् ॥१४३ ततोऽमात्यः सुरसूरित्यमृशत् किमु मायया । सद्भावादथ राजेदमाख्यात तत् परीक्ष्यते ॥१४४ यतः - भू भुजङ्गस्य यो मन्त्री विश्वस्य स्यात् प्रमद्वरः । तस्मादेव हि सोऽवश्यं विनश्यत्यचिरादपि ॥१४५ मन्त्र्यूचे नेति रानीतिर्यद्राज्यं क्रियतेऽन्यसात् । राज्यानीहस्तापसः स्यान्न्यस्यान्यस्मिन् नृपश्रियम् ॥१४६ राजाऽचिन्तयदस्योक्तिः कृत्रिमाऽकृत्रिमाऽथवा ।।
ततः परीक्ष्योऽसौ सम्यक् स्वर्णवत् हृत्कषोपले ॥१४७ १३९.३. तैरूचो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org