________________
१२१-१३४]
नवम उत्साहः
निर्धाट्यते भीषयित्वा तदयं वन्यसत्त्ववत् । ततस्तत्र नटो हूतः पृष्टो देवोऽधुना व भोः ॥१२१ कोऽयं देवोऽस्मि पृच्छयेयं मन्त्रिन्नित्यवदन्नटः । देवोऽरिसिंहोऽस्याः पुर्याः स्वामीत्यूचेऽथ मन्त्रिणा ॥१२२ स कि केनाप्यर्पितो मे यत् पृच्छयेऽस्मि नटोऽभ्यधात् । त्वयाऽटता क्वापि देवो दृष्टः स्यादिति मन्त्र्यवक् ॥१२३ नटोऽबताथ देवः क्वेति वः साकूतमीरितम् । अन्यथा भवता देवो दृष्टः क्वापीति युक्तिमत् ॥१२४ मन्ब्यूचे यत्कृते यत्नस्तदेवापहनुते कुधीः । सुधीस्तु साधयन्नेव तत् कार्य वक्ति किञ्चन ॥१२५ आख्यन्नटः प्रेक्षणेन हृदावयं भवादृशाम् । कुटुम्ब वर्तये मन्त्रिन् कार्यमित्येव मे ननु ॥१२६ सम्भावयामि तत् सिद्धं नान्यत् कार्य ममाधुना । असम्बद्धमिवाख्यातं तदमात्यवर त्वया ॥१२७ सचिवोऽव्रत हे धूर्त प्रलपस्यत्र किं वृथा । यतोऽस्ति यत् तवाकूतं तज्ज्ञातं त्वत्सुभाषितैः ॥१२८ किञ्चास्माकमपीष्टं श्रीस्वामिपादाब्जसेवनम् । तद् विश्रभ्य किं न वक्षि वृत्तान्त स्वामिनः स्फुटम् ॥१२९ विश्रभ्याथ नटोऽवादीद् देवः खेटपुरेऽस्ति भोः । निरामयो राज्यलक्ष्म्यै चक्रपाणिरिवोत्सुकः ॥१३० अहो मन्त्रिमतेस्तैक्ष्ण्यं गुढीयस्त्वं च किञ्चन । नटहृद् वज्रघटितं ययाऽभेद्यत लीलया ॥१३१ ततो मन्त्र्यादिभिः प्रोचे त्वमितोऽपसर द्रुतम् । अरे नट न नष्टश्चेद् विनष्टोऽसि ततो ध्रुवम् ॥१३२ प्राणप्रहाणभीत्याऽथ नाटयन् भयनाटकम् । काकनाशं नटो नप्टोऽरिसिंहान्तिकमासदत् ॥१३३ द्वितीयेऽहन्यमात्याद्या अरिकेसरिणोदिताः ।
क्वासौ नटो भरतवन्नाट्यवेदविदां वरः ॥१३४ Lila.-28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org