________________
[१०८-१२०
लीलावतीसारे पुनः क्षणान्तरं कृत्वा हृत्वा रोलं च सर्वतः । कुशीलवोऽतिकुशलः स इदं सूक्तमुक्तवान् ॥१०८ धिक्कृता धी(सखानां तेषां येषामधीश्वरः । रङ्कवद् वैरिगेहेषु भिक्षायै परिसर्पति ॥१०९ प्रस्तावान्तरमारभ्य रचिताञ्जलि भारतिः । सुभाषितमभाषिष्ट शिष्टचेष्टितसृष्टिकृत् ॥११० देव त्वमेव नः स्वामीत्याख्यातां राज्यगे प्रभौ । तद्भप्टे तूपेक्षकाणां मन्त्रिणां स्तादजीवनिः ॥१११ तत्ताहक सूक्तरचनाचातुरीचतुरं वचः । निशम्य मन्त्रिभिर्जज्ञे ब्रूते साकूतमेव भोः ॥११२ पुनःपुनर्नवनवप्रतिभाप्रतिभास्वरः नटेश्वरः सूक्तखानि प्रक्रमादुदजीघटत् ॥११३ प्राणैरप्युपकुर्वन्ति स्वामिनं ये महौजसः । न संहता न भिन्नाश्च श्रीसामन्ता जयन्ति ते ॥११४ तथा - तेषां कः प्रेक्षतामास्यं सामन्तानां समन्ततः ।। प्रभुप्रसादानास्वाद्य पापा ये स्वप्रभुद्रुहः ॥११५ तथायः प्राणैरपि गृह्णाति स्वामिने विजयश्रियम् । शुचेर्दक्षानुरक्तस्य तस्य भत्यस्य कोपमा ॥११६ पापाः पदातयोऽलीकाडम्बराश्चाटुकारिणः । स्वामिप्रसादानादाय द्रुह्यन्ति स्वामिनेऽत्र ये ॥११७ ततो नृपं । विना सर्वैः सामन्ताद्यैरबुध्यत । साभिप्रायमयं नाट्यकपटेन नटोऽवदत् ॥११८ अथोचे मन्त्रिसामन्तरतिकालमजायत । अये नट ततो नाट्यमिदं संवृणु संवृतम् ॥११९ ते मन्त्रिणः सुरगुरोर्गृहे गत्वा मिथोऽभ्यधुः । भेदकृत् कोऽप्यसौ तन्न हिताय स्वस्य नापि नः ॥१२०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org