________________
६६-७९]
नवम उत्साहः
२१३
आपन्नानामुत्तमानां येऽत्रानुपकृता अपि । उपकुर्वन्ति त इमे जगत्यां नरभास्कराः ॥६६ आपद्गतानां दुर्दैवाये तूपकृतपूर्विणाम् । प्रत्युपकुर्वते ते तु किञ्चिदानृण्यमियति ॥६७ ये तूपकारकेऽप्यूच्चैर्दुर्दशाविवशात्मनि । नोपकारपरास्ते स्युऋणदासा भवे भवे ॥६८ तदेनमुपकुर्वेऽस्मि यद्येष प्रगुणो भवेत् । तद्राज्य मेऽस्य प्रसादाद् भविताऽनृणताऽथवा ॥६९ ततोऽसौ स्वगृहे तेनोपचेरेऽभ्यङ्गभोजनैः ।। न पट्वभूत् ततो धन्वन्तरिवेद्यस्य दर्शितः ॥७० स्वाम्येष नो न जानेऽस्मि कुतोऽप्येवं दशां गतः । तदाप्त सम्यक् कथय यथैष स्याद् द्रुतं पटुः ॥७१ इत्थं नटप्रकटिते तत्स्वरूपे भिषग्वरः । शास्त्रानुभवचक्षुयां तं वीक्षामास सर्वतः ॥७२॥ युग्मम् शैलुषमवदच्चैव वातपित्तकफोद्भवः । विकारो नास्य तल्लिङ्गाभावाद् विषविकारवत् ॥७३ न भूतशाकिनीदोषोऽप्यत्र कोऽपि निरीक्ष्यते । सम्भाव्यते तदेतस्य दोषः कार्मणसम्भवः ॥७४ कार्मणं चास्य नासायां नासां स्पृशति यन्मुहुः । नटेनोचे कार्मणस्य त्वं जानासि प्रतिक्रियाम् ॥७५ धन्वन्तरिरथाचरव्यौ कार्मणानामशेषतः । विधि प्रतिविधि वेद्मि ततोऽवादीन्नटः पुनः ॥७६ पुण्यात्मन्नेष राजासीच्चेदमुं कुरुषे पटुम् । दारिद्यमुद्रा द्रवति तदा सप्तकुलात् तव ॥७७ ततः प्रोचेऽगदकारः करोम्येनमनामयम् । त्वं चेदक्तनि(?)हुडुकीदुग्धमानयसे सखे ॥७८ त्रिलाहविषये सा च तुङ्गे गोशङ्गपर्वते ।। तस्या अमून्यभिज्ञानानीत्यवादीभिषग्वरः ॥७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org