________________
लीलावतीसारे आरक्षैः प्रत्यभिज्ञाय सोऽरिसिंहोऽयमित्यसौ । पहिलो दर्शयाञ्चक्रे विजयराजभू भुजः ॥५३ तेनोच्छलत्क्रोधवहिज्वालपाटलचक्षुषा तद्धमलहरीसध्यङ्ञकुटीभीष्ममौच्यत ॥५४ रे सोऽयं नित्यवैरी नस्तत् खरारोपणादयम् । पुरे विगोप्यैवमेव बहिरेवं विडम्ब्यताम् ॥५५ ततश्चाभिदधे मन्त्रिमौलिना श्रीसुबुद्धिना । देवावधार्यतां तावन्नीतिपूतं वचो मम ॥५६ मृतस्य मारणे देव सुभटस्य यशो न हि । अहिलश्च मृत एवेत्यादेशोऽनुचितः प्रभोः ॥५७ अपि च - निरायुधस्य व्यसन प्राप्तस्य गृहमेयुषः । रणक्षेत्रे पतितस्य वधोऽरेरपि नोचितः ॥५८ किञ्चारिकेसरी राजा पुत्रोऽस्य विदितः प्रभोः । एतस्यैवं कृतेऽवश्यं तवामित्रीभविष्यति ॥५९ तत्सेनयाऽपि देवस्य त्रासिताया भुवो ध्रुवम् ।। जलस्थलाद्रिदुर्गाणि मुक्त्वाऽन्यच्छरणं न हि ॥६० कृतप्रतिकृतं कर्तुं तव साम्प्रतमीश्महे । वयं न त्वादृशाः किन्तु तदस्मद्देशतो व्रज ॥६१ भाणयित्वेति दत्वा च शम्बलं प्रेष्यतेऽसकौ । एवंकृते प्रभोः कीर्तिः कार्तिकेन्दुविजित्वरी ॥६२॥ युग्मम् राज्ञा तथा कारितेऽसौ भ्रमन् खेटपुरं ययौ । राज्ये कृतप्रसादेन पर्यज्ञायि नटेन च ॥६३ ज्योत्कृत्य भाषितस्तेन स्वामिन्नेवं किमट्यसे । स विचेताः प्रतिब्रूते नैवासम्बद्धमेव वा ॥६४ ज्ञातं तेन धातुदोषादिनास्य मतिविभ्रमः ।।
जज्ञे बम्भ्रम्यते तेन स नतोऽचिन्तयन्नटः ॥६५ ६२.२. 'सको. ६४.२. किमट्यमे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org