SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २११ ३९-५२] नवम उत्साहः शयने जागरे स्थाने प्रस्थाने भवने वने । दिने दिनान्ते छायेव तस्याभूत् साऽनुयायिनी ॥३९ भोगिनी साऽथ पद्मश्रीः प्रद्वेषविषपूरिता । तस्याः छिद्राणि मृग्यन्ती दिवानिशमखिद्यत ॥४० तामुच्चाटयितुं भूपं वशीकर्तुमथैषिका । मान्त्रिकांस्तान्त्रिकान् योगिन्यादिकानप्युपाचरत् ॥४१ योगचूर्ण चरिकया ददे तस्याः परे द्यवि । ऊचे च गन्धे प्रक्षिप्य देयं नसि यथा विशेत् ॥४२ पद्मश्रीस्तत् सुगन्धेषु न्यस्य गन्धान् ददौ प्रभोः । ते गन्धलोभादाघ्राता भू भुजः प्राविशन्नसि ॥४३ तैश्च चूर्णलवैर्मन्दो अहिलः स्यात् पटुवंशः ।। तदा च स नृपो मन्दस्ततोऽभूद् पहिलो भृशम् ॥४४ ततश्च - हसति रोदिति. पूत्कुरुते नृपो भ्रमति गायति तारतरस्वरम् । स्वमुखवादनतालपुरःसरं निवसनेन विना परिनृत्यति ॥४५ शपति निन्दति पूज्यतमानपि प्रहरतेऽनुचरांश्च निरागसः । ननु महौषधिमन्त्रगणागणा विफलतामुपयान्ति विधिं विना ॥४६ ततोऽमात्यैः स संयम्य चिक्षिपे दारुपञ्जरे । हूता वैद्या मन्त्रतन्त्रयोगचूर्णविदोऽपि च ॥४७ स्वस्वक्रियारम्भितैश्च न चाभूत् प्रगुणो नृपः । तनाथ मन्त्रिणोऽभूवन्निराशा विगतादराः ॥४८ सम्प्रधार्य ततः सम्यक् सर्वैः सामन्तमन्त्रिभिः । तन्मूर्त्यन्तरवद् राज्येऽस्थापि पुत्रोऽरिकेसरी ॥४९ ततोऽरिकेसरी राजा संजज्ञे राजकेसरी । क्रमविक्रमशालित्वादधष्यो वैरिकुञ्जरैः ॥५० निर्भाग्या सा च पद्मश्रीनंष्ट्वाऽगात् तातमन्दिरम् । पतिकार्मणपाप्माऽस्याः पपातात्रैव मूर्धनि ॥५१ स चारिसिंहो पहिलोऽनादरान्मन्दरक्षितः । निर्गत्य भ्राम्यन् दिक्ष्वाप पुरं क्षितिप्रतिष्ठितम् ॥५२ ५२.२. 'नादारान् . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy