SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २१० लीलावतीसारे [२६-३८ प्रेयसी तस्य पद्मश्रीः काप्यभङ्गुरसौरभा । नक्तंदिवविकाशिन्यां यस्यां राजाऽत्यरज्यत ॥२६ स च क्षोणीपतिर्घाणविषयासक्तमानसः । सारं सौरभ्यमेवैकमिन्द्रियार्थेष्वमन्यत ॥२७ तथा हि - जलजस्थलजानेककुसुमामोदषट्पदः सर्वर्तुरम्यनानाङ्गरागविच्छित्तिकोविदः ॥२८ नैकजातीयकुसुमद्रुतिस्नानातिपावनः गन्धसारघनसारपटवासाधिवासितः ॥२९ आमकर्पूरकस्तूरीश्रीकृष्णागुरुचन्दनैः केशवस्त्रवपुर्वासवेश्मवासातिलालसः ॥३० समुच्छलत्परिमलवासिताशेषदिङ्मुखः गन्धस्कन्धश्चरिष्णुर्नु व्यचरत् स यदृच्छया ॥३१॥ चतुर्भिः कलापकम् गुणीकृताशेषशेषहृषीकविषयोत्करः .. । स प्रियप्राभतेऽप्यासीत् सुरभौ राभसिक्यभाक् ॥३२ इतश्च पुयीं श्रीमत्यां भीमत्यां न कदाचन । राजाश्रीविमलकीर्तिस्तस्य कीर्तिमती प्रिया ॥३३ कमलावती तत्पुत्री चतुःषष्टिकलावती । अनौपाधिकसौभाग्यसौगन्ध्याढ्यवपुलता ॥३४ अधीतिनी कामशास्त्रे रतिकेलीविचक्षणा । तस्मै श्रीअरिसिंहायाऽथोपतस्थे स्वयंवरा ॥३५॥ युग्मम् स तां महाडम्बरेणोपयेमे मेदिनीपतिः । तया पुनः स संयेमेऽङ्गसौरभमुखैर्गुणैः ॥३६ लक्ष्मीमलक्ष्मीमायीं चानायीं वर्णात् तिलोत्तमाम् । रम्भां रम्भागिरं मेने स तयाऽनुपमश्रिया ॥३७ ततः स भूपः पद्मश्रीप्रमुखं प्रेममन्दिरम् ।। अवरोधमवरोधं सुखश्रीणाममन्यत ॥३८ २७.३. वैकं. ३५.१. कामशास्त्रै. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy