________________
१२-२५]
नवम उत्साहः
तदासक्तश्च विकलो रागद्वेषविसंस्थुलः । कृत्याकृत्यान्धबधिरः पतति प्राणसंशये ॥१२ दुष्कर्मबन्धान्निबिडान्नरकेऽसौ विडम्ब्यते ।। ततः कथञ्चिदुवृत्तः कुतिर्यनृषु जायते ॥१३ तत्रापि गन्धसम्बन्धलुब्धघ्राणाहिसङ्गतः । भवे भवे वराकोऽसौ दुःसह दुःखमश्नुते ॥१४ राजन्नत्र च दृष्टान्त एष श्रेष्ठी पुरन्दरः ।। स नत्वोचे स्वचरित शुश्रूषे त्वन्मुखात् प्रभो ॥१५ देवदुन्दुभिनिर्घोषसनाभिध्वनिडम्बरः । आकर्ण्यतां नैगमेशेत्युवाच गणभद्वरः ॥१६ जम्बू द्वीपो द्वीपराजो योजनलक्षनायकः । लवणस्तद्विगुणेशः समुद्राणां धुरि स्थितः ॥१७ ततोऽपि धातकीपण्डो द्वीपस्तद्विगुणाधिसूः । ततः परत्र कालोदस्तद्विगुणमितीश्वरः ॥१८ ततश्च पुष्करवरनामा द्वीपस्तृतीयकः ।। चकास्ति योजनलक्षषोडशकाधिनायकः ॥१९। त्रिभिर्विशेषकम् न जाने केनचित् कस्माच्चि विवादात् कदाचन । मानुषोत्तरशैलेन सीम्ना द्वेधा व्यभाज्यसौ ॥२० पूर्वार्धे तत्र च प्राचीप्रतीच्योर्मन्दरद्वयम् । सप्त सप्त विदेहाद्या वर्षाश्च प्रतिमन्दरम् ॥२१ प्रागमन्दरप्रतिबद्धे क्षेत्रे भरतनामनि । चकाशे मध्यमखण्डभूषा श्रीविजयापुरी ॥२२ या वप्रशङ्गस्खलनभीत्याऽर्केणाप्यलचिता । परिखावारिशमितशेषभूवहनक्लमा
॥२३ यक्षहर्म्यतलालीनाचार्यतालप्रतिष्ठया एकया यत्र दिवि च सङ्गीतकमजायत ॥२४ तस्यां शस्यक्रमलक्ष्मीररिसिंहो महीपतिः । ।
यन्नाममन्त्रस्त्रासाय प्रत्यर्थिकरिणामहो ॥२५ Lila.-27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org