________________
[ ८०-९३
२१४
लीलावतीसारे नटः प्रतीतपुरुषांस्तन्निमित्तमथादिशत् । तैश्च तदौषधीदुग्धमानिन्ये स्वगृहादिव ॥८० वैद्येन विधिना तच्च प्रयुक्तं तस्य भू भुजः । प्रशान्तकार्मणोद्गारः सोऽचिरात् प्रगुणोऽभवत् ॥८१ अहो तव परिज्ञानमहो तव चिकित्सितम् । इति प्रशंसन् शैलूषो दोषज्ञं बह्वपूजयत् ॥८२ कथंकारमिहास्मीति राज्ञोक्ते भरतोऽभ्यधात् । स्वानुभूतं व्यतिकरमरिसिंहाय भू भुजे ॥८३ ततो राजाऽवदद् यामः स्वपुर्यामधुनैव हि । नटोऽवादीदेवमेव गच्छतां देब नो शुभम् ॥८४ यतो राज्य निधानं च परहस्तगतं यदि । न लभ्यते लभ्यते वा परया शक्तिसम्पदा ॥८५ ततोऽरिसिंहोऽवादीत् किं प्राप्तकालमिहाधुना । तौ च धन्वन्तरिनटौ त व्यजिज्ञपतामिति ॥८६ यदावयोर्गृहे लक्ष्मीः स प्रसादस्तवैव हि । यत् सरांसि प्रपूर्णानि तत् पयोदविजृम्भितम् ॥८७ तदिमां स्वरमां देव मानयात्रैव तिष्ठ च । आवां पुनस्तत्र यावः स्वामिकार्यस्य सिद्धये ॥८८ नटवृत्त्या प्रधानानां करिष्यामि भिदामहम् । वैद्यस्तु तस्य भूपस्य भैषजात् कीर्तिशेषताम् ॥८९ अस्मद् विज्ञप्त्यैव पादोऽवधार्यस्तत्र भू भुजा ।। इत्युक्त्वा नटवैद्यौ तौ जग्मतुर्विजयां पुरीम् ॥९० नटेन घटितं नाट्यमरिकेसरिणः पुरः । तत्रागते रसबन्धं सूक्तमेकं नटोऽपठत् ॥९१ कृतं वेत्ति गुणान् वेत्ति वेत्ति विज्ञापितं सुधीः । सेवकस्य स्थितिं वेत्ति स्वामिनस्तस्य कोपमा ॥९२ प्रजगे ननृते व्याप्य तदेवास्यानुचारिभिः ।।
रङ्गप्रसङ्गात् पुनरप्यपाठीत् पाठविन्नटः ।।९३ ८८.१. स्वरगां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org