SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २०७ १८४-१९३] अष्टम उत्साहः अहं तु निष्कृपा पापाकुलद्वयकलकिनी । इहैवं मरणं प्राप्याप्स्याम्यमुत्र तु दुर्गतिम् ॥१८४ मुहुर्मुहुश्चिन्तयन्ती सैवं ग्रामेयकैः क्षणात् । प्रदीपिता सत्यमती ताभिः सह पलालवत् ॥१८५ तेन साध्वीगुणगणग्रहणे सहृदा हृदा ।। उपाय॑ सा मनुष्यायुर्विपद्य च समाधिना ॥१८६ पुर्यामत्रेव कौशाम्ब्यां बुद्धिसागरमन्त्रिणः । प्रियपत्न्या जयादेव्याः कुक्षौ तनयतामगात् ॥१८७॥ युग्मम् क्रमेण तनयो जज्ञे जज्ञे सपदि मन्त्रिणा । वर्धापितेन धात्रेय्या मन्त्रिणीबद्धसख्यया ॥१८८ पारितोषिकदानेन सचिवस्तामवर्धयत् । दधते न चिरं सन्तो ह्युपकाराधमर्णताम् ॥१८९ महोत्सवैनवनवैः प्रीणयित्वाऽखिलं पुरम् । जयशासन इत्यस्य नामधेयमधात् पिता ॥१९० स च त्वमेष सचिव स्वयं सम्यग विभावय । सुधर्मस्वामिनेत्युक्तः स ईहादौ प्रविष्टवान् ॥१९१ क्षणं मूर्छाव्याजान्मनसि चलिते प्राग्भवदिशं ___ समायाते जातिस्मरणसहिते तत्र सपदि । तदाख्यातं बुद्ध्वा पुनरपि यथावत् सुचरितं प्रभुं नत्वा व्यज्ञापयत मुदितः सैष सचिवः ॥१९२ निःसन्दिग्धमिदं प्रभूक्तमखिलं स्वामिस्तदादिश्यता ... मीदृकश्मलकर्ममर्मभिदुरं किञ्चिद् रहस्यं मम । ईदृक् सौम्यजिनेश्वरस्य चरणं योग्योऽस्मि चेद् देहि तद् ___ योग्यः सम्प्रति किन्तु किञ्चिदपरं तावत् क्षणं श्रूयताम् ॥१९३ इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनाके रसनेन्द्रियविपाक-व्यावर्णनो नाम सप्तम उत्साहः * ॥ १८७.३. जय'. * ग्रं० २७२ ॥ छ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy