________________
२०६
लीलावतीसारे
[१७०-१८३ क्रमात् तस्याः सुतो जज्ञे नागदेवाभिधः स च । जातोऽष्टवार्षिकः पित्रोः प्रत्याशावल्लिपादपः ॥१७० अन्यदा तद्गृहे काचिच्चरिका समुपागता । तां लोभयामास नानाशक्तिकौतुकदर्शनैः ॥१७१ अस्मन्मते मिलसि चेत् तन्न भोगमविद्यया । उपभुझे सदा सर्वेन्द्रियशर्म यदृच्छया ॥१७२ तया च प्राग्भवाभ्यस्तरसनेन्द्रियलौल्यतः । मेने तदुक्तं साऽथाख्यत् सिद्धिर्वेष्ठसुतार्पणात् ॥१७३ सत्यमत्याऽभाणि कथमिदं मातर्विधीयते । पापो वै वेत्सि वत्से न का माता कश्च नन्दनः ॥१७४ यद्येतदुचितं न स्यात् कथं स्वं पुत्रमार्पयम् । पूज्याभ्यो योगिनीभ्यः किं ज्येष्ठः पुत्रो न मे प्रियः ॥१७५ किञ्च गेहे निवसता मन्ये स्युर्बहवोऽङ्गजाः । नन्वीहग सिद्धिरिति मे वचनं माऽन्यथा कृथाः ॥१७६ तया प्रतिश्रुते ज्येष्ठस्तत्पुत्रो विदधे बलिः । शिक्षिता शाकिनीमन्त्रं ताभिः साऽभक्षयज्जनम् ॥१७७ अन्यदा जगृहे ताभिर्माहिलस्य कुटुम्बिनः । प्रियः पुत्रो वामदेवस्तेनाहूताश्च मान्त्रिकाः ॥१७८ एकेन मान्त्रिकेणाथाकृष्टाः साक्षादिमाः समाः । उक्ताश्च मुक्त एवास्मिन् जीवितं वोऽन्यथा न हि ॥१७९ ततो मुक्तः स पापाभिरथ ग्राम्यैर्जनैर्जगे । एताः साक्षान्मारयस्तन्नोज्झ्या ग्रामहितैषिभिः ॥१८० किन्तु भिण्टेर्वेष्टयित्वा प्रदीप्यन्तामिमा समाः । येनाखिलस्य ग्रामस्य सम्पनीपद्यते शिवम् ॥१८१ ततश्च तास्तथा कर्तुं नीयमाना व्यलोकयन् । शान्ता महासतीः साध्वीद्र्ता इव शमश्रियः ॥१८२ सत्यमत्या तयाऽचिन्ति धन्या वन्द्या इमा परम् । या ईदृक् पापविरताः पुण्या अत्र परत्र च ॥१८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org