SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ अष्टम उत्साहः २०५ देवादिष्टं नोचितं तत् पाल्यतां तावदुर्व्यसौ । यशोराजकुमारः स्याद् यावदुर्वीधुरन्धरः ॥१५६ यशोभाजन साध्वेतद् यशोभाजनमेव नः । इति प्रतिश्रुत्य राजा प्राग्वत् स्वं राज्यमन्वशात् ॥१५७ सोऽन्यदा व्यसनासक्तो राज्यकार्यपराङ्मुखः । जितारिरश्वथट्टेन ययावाखेटकं प्रति ॥१५८ गच्छता तेन दृष्ट्वाऽग्रे मुक्तोऽश्वो जम्बुकं प्रति । अपरैरश्ववारैश्च ततोऽसौ मृगधूर्तकः ॥१५९ जुमार्गेण धावित्वा झटित्येव निवर्तते । काटेषु(?) लीयते तूर्ण निर्गच्छति च वामतः ॥१६० प्रवृत्य दक्षिणेनाशु ततोऽपि च निवर्तते । यदिशा तेऽभिधावन्ति वलत्येष ततस्ततः ॥१६१ शगालसिंहेन तेन नृसिंहा अपि ते क्षणात् । शगालतामनीयन्त दुर्गतौ योग्यतामपि ॥१६२ तं हन्तुमेवमेतेषामभ्यायातां परस्परम् । कुमाराश्वो जसरविहयेनास्फलितोऽधिकम् ॥१६३ कुमाराश्वोऽप्रकायेन नभस्युल्ललितो भशम् । कुमारं पातयामास दृषदृढमहीतले ॥१६४ गाढाभिघातेन तेन कुमारश्चणिताङ्गकः । कुम्भीपाकेऽतिसुखतः प्रवेशायेव वेधसा ॥१६५ क्षणाद् विपन्नो जितारी रसलौल्यकुमित्रयुक् । रौद्रध्यानहयारूढो नरकं प्रापदादिमम् ॥१६६।। युग्मम् तत्र सागरमेकं सोऽनुभूयाशर्म केवलम् । मगधेषु श्रयगाधेषु ग्रामे गोब्बरनामनि ॥१६७ कुटुम्बिनः सत्यहरेः सर्वदेवीप्रियोदरे । दुहितृत्वेन संपेदे जितारिनरकात् ततः ॥१६८॥ युग्मम् सा च सत्यमतिर्नाम्ना यौवने पर्यणीयत । सत्यनामाभिधानेन कुटुम्बितनुजन्मना ॥१६९ १६०.१. धात्वित्वा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy