________________
२०४
लीलावतीसारे
इति व्याहृत्योच्चैश्चरणकमलं सुव्रतगुरो
Jain Education International
र्नमज्जित्वा (?) नाट्यं व्यरचयदगात् स्वास्पदमसौ ॥१४२ इति पुण्यापुण्यफलं मयाद्याध्यक्षमीक्षितम् । कुमार बहुमन्यस्व मन्यस्व पितृभाषितम् ॥ १४३ विहस्याह कुमारोऽथ मन्त्रिन् कुहकमोहितः । मां मोहयितुमारब्धो जितारिर्मोह्यते न हि ॥१४४ कालदष्ट इवासाध्य उपदेशऋचासौ । इति निश्चित्य सचिवो जुजुषे जोषमञ्जसा ।। १४५ ततो राजा रत्नचूडश्चडारत्नं विवेकिनाम् । शरीरचेष्टामाधत्स्वेत्युवाच निजनन्दनम् ।। १४६ महाप्रसादो देवेत्यभिधायोत्थाय राजसूः । समाससाद स्वावासं जितकाशी स्वचेतसा ॥ १४७ अथ देवी सनिर्वेद मेदिनीशं व्यजिज्ञपत् । धर्मानभिज्ञस्त्वत्सूनुः कथं देव भविष्यति ।। १४८ राजाऽऽख्यद् देवि कः कस्य स्वः परो वाऽथवा न कः । संसारनाटकेमुष्मिन् संधे कर्मसूत्रणा ॥ १४९ आन्तरारिजितोऽप्येष जितारिः कीर्तितो मृषा । न चारोपिततारत्वं शुक्तिकार्यं तदर्थकृत् ॥ १५० दुष्कर्मसन्निपात्येष योग्यो धर्मैषधस्य न । तदस्य चिन्तया देवि मा विषादं कृथा वृथा ॥ १५१ तदस्य राज्यदानेनैहिकं कार्यं समाप्यते । पारत्रिकं तु प्रव्रज्याङ्गीकारात् यशोभाजनमन्यूचे चतुः कर्णं भावितार्हद्वचनानामेतद्देवाति
*
परिपूर्यते ॥ १५२ महीभुजे ।
युज्यते ॥ १५३
स्वामिन् कुमारः किन्त्वेष राज्यस्यार्हो न सर्वथा । देवो जानात्येव तस्य राज्यकार्योत्सहिष्णुताम् ।। १५४ ततः सीमालभूपालैः सम्भवी देशविप्लवः । ततः सङ्घस्य चैत्यानां धर्मस्यापि च विप्लवः ॥ १५५
[ १४२-१५५
For Private & Personal Use Only
www.jainelibrary.org