SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ७९-९१] Jain Education International अष्टम उत्साहः अपि च - त्रिलोकख्यातयशसो देवस्तस्य नन्दनः । धिग दैवेन कृतः किं त्वं यद्यभव्योऽसि पुत्रक ॥७९ भविष्यसि कथं वत्स भवाब्धौ क्षिप्त एनसा | यत् प्रत्यक्षं भवस्येवं हा हता सा जनन्यपि ॥ ८० कलङ्कितोऽद्य भवता पितृवंशोऽतिनिर्मलः । हा पुत्र भग्निका माता त्वय्यभव्ये करोतु किम् ॥ ८१ वत्स यद्यपि भव्योऽसि तथाऽपि भवभाजनम् । कथमासन्नभव्यस्य स्युरुल्लापा अमूदृशाः ॥ ८२ तत्प्रसादं कुरु वत्स मा मुधा भूः स्ववैरिकः । पापादमुष्माद् विरम रमस्व जिनवर्त्मनि ॥८३ कुमारोऽथाह सक्रोधं मातस्त्वं यदि धार्मिकी । तदप्रियं कर्कशं च किमेवं मयि भाषसे ॥ ८४ दुर्भाषिणी तु निर्भाग्यंमन्या धन्याऽसि न कचित् । सर्वथोपेक्षणीया तत् त्वमेवं भाषसे मुधा ॥ ८५ किं चास्म्यनुचिताचारफलमाप्स्यामि किं तव । य आस्खलति तस्यैव भज्यते दन्तमालिका ॥८६ मन्त्री विमलमत्याख्योऽथाचख्यौ तं स्वमातरि । कुमार मा कुपोऽपत्यस्नेह इत्यपराध्यति ॥ ८७ मृगीगवाश्वाशकुनिकलविकद्विकादयः I अपत्यस्नेहनटिताः पश्य किं न हि कुर्वते ॥ ८८ कुमारनिरपेक्षोक्तिबाणवृन्देररुन्तुदैः 1 श्रीरत्नचूलो राणमौनव्रतभङ्गमकार्यत ॥ ८९ ततोऽवदन्नृपस्त्वद्वद् यद्युपेक्षाऽस्ति नस्त्वयि । राज्यं दद्मः कथं तस्मात् तत् कुर्या येन नः सुखम् ॥९० अथाभाणि कुमारेण देवपादा दिशन्तु मे । किञ्चनाप्यनुचितमाचराम्यवकीर्णवत् ॥ ९१ यत् ७९.४. पुत्रकः. For Private & Personal Use Only १९९ www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy