________________
१९८
६६६-७८
लीलावतीसारे ततः कुमारो जितारिः पापोपाध्यायपाठिताम् । चण्डो ताण्डवयामास वितण्डां स्वपितुः पुरः ॥६६ जन्मान्तरार्जितफलभोक्ताऽऽत्मा चेद् भवेत् पितः । तद् युज्यते सर्वमिदं तदभावे तु निष्फलम् ॥६७ यद्वाऽस्त्वात्मा बहुवादिप्रयुक्तहेतुजालतः । तथाऽपि कर्ता नैवासौ भुङ्क्तेऽसौ प्राकृतं यतः ॥६८ कृतनाशाकृतापत्तिदोषादात्मा करोतु वा । किन्तु न ज्ञायते कृत्यं शुभाशुभनिबन्धनम् ॥६९ अर्थापत्त्याऽथ बुध्येत शुभाशुभकरी क्रिया । दृश्यन्ते तारकादीनां यद्विमाना नभस्तले ॥७० शुभक्रियाफलमिदं यदेषुत्पत्तिरङ्गिनाम् । तात तान्यप्यसङ्ख्यानि देवा अप्येष्वसङ्ख्यकाः ॥७१ प्रतिक्षणमसङ्ख्याताश्चयवन्ते च भवन्ति च । तदेतद् घटते तर्हि चेद्यायुस्तत्र पापिनः ।।७२ यतोऽसङ्ख्यास्त एवेह हिंसा तत् स्वर्निबन्धनम् । बलादापतितं तात हिंस्राद्यैस्तज्जितं जितम् ॥७३ किञ्चाहिंस्रा यतयोऽत्र ते मिता एव यद् भुवि । ततस्ते स्युः कुष्ठिपगुभिक्षाकास्ते मिता यतः ॥७४ तथा हेत्वनुरूपं स्यात् कार्यमेतत् सुविश्रुतम् । कायक्लेशात् ततस्तात स्यात् सुखप्रभवः कथम् ॥७५ तत् सर्वशास्त्रतत्त्वज्ञमौलिना स्वामिना वृथा ।। दीक्षिष्ये सम्प्रतीत्युक्तं तदाचन्द्रं महीं पृणु ॥७६ सर्वथाऽनुपदेश्योऽयमिति भूभति मौनिनि । सखेदं सास्रमूचेऽथ देवी रत्नावली सुतम् ॥७७ हा हा पुत्र किमपरं वैराग्यस्य व्रतस्य च । त्वरिपतुः कारणं हंत तव दुश्चेष्टितं विना ॥७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org