________________
अष्टम उत्साहः
१९७
देव्यूचे चिन्त्यतां कोऽप्युपायस्तत्र पुनः प्रभो । रत्नाकरस्य रत्नानि धीमतो धीनवा नवा ॥५२ सोपक्रमे कर्मणि चोपायोऽपि स्यात् फलेग्रहिः ।। पुत्रोऽस्ति देवपादानां कुमारो वार्यतां ततः ॥५३ सखेदं पुनरूचे राट् क उपायोऽत्र साम्प्रतम् । मन्त्री विमलमत्याख्योऽत्रान्तरे भूपमब्रवीत् ॥५४ एकदाऽऽहूयतां देव कुमारोऽत्र स्वसन्निधौ । देवराश्योस्तदाऽऽलापे वक्ष्येऽहमपि किञ्चन ॥५५ राज्ञा सद्यः समाहूतः कुमारो नृपमानमत् ।। सिंहासनेऽथ स्वासन्ने तेन प्रेम्णा न्यवेशितः ॥५६ कच्चित् कुमार कुशलं सर्वाङ्ग तव सम्प्रति । इति पृष्टो मुदा पित्रा पुत्रोऽवादीत् कृताञ्जलिः ॥५७ यस्य प्रसादात् कुशलं जृम्भते जगतीतले । तस्य सुस्वामिनः पुत्रे कुशलं मयि निश्चलम् ॥५८ तातपादरधुना तु हूतो येनाऽस्मि हेतुना । तन्निवेदनप्रसादं लब्धं लुब्धे श्रुती मम ॥५९ व्याजहाराथ पृथ्वीशः शृणु वत्स विवक्षितम् । अनर्वापारसंसारपारावारभयाकरात् ॥६० प्रदीप्तभवनाकारादद्य श्वो वा विनश्वरात् । गृहवासान्मोहपाशान्निविण्णं मम मानसम् ॥६१॥ युग्मम् नृजन्मकल्पवृक्षस्य महाव्रतमहाङ्कुटैः । महानन्दफलं वत्सादित्सते मानसं मम ॥६२ तत् कुमार महीभारं दुर्धरं धर सम्प्रति । शेषराज इवेदानी विश्राम्याम्यस्म्यविश्रमम् ॥६३ इति श्रुत्वा मुहुः स्मित्वा कुमारो नृपमभ्यधात् । तात प्रस्तूयते वक्तुं किञ्चित् प्रस्तुतवद्मनि ॥६४ यदि प्रसादविमुखास्तातपादा भवन्ति न । वत्सो यथेष्टमाचष्टामित्याचष्ट स्फुटं पिता ॥६५॥ युग्मम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org