SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे कुलाध्वनाऽनागता याऽध्यापकाध्यापिता न या । मांसाशितां कलामेनां पाठितोऽसौ रसज्ञया ॥४० ततश्च - दुर्दान्तरसनाश्वेनापहृतोऽपथगामुकः कुमित्रैम॑गयाऽटव्यां सोऽवस्थानमकार्यत ॥४१ तथा हि - चलवेध्यव्यधाभ्यासस्तेषां भीक्रोधबोधनम् । वपुर्दाढयं श्रमजयश्चेत्याद्या मृगयागुणाः ॥४२ किञ्च - नास्त्यात्मा तदभावाच्च न कर्म न परं जनुः । तद्देव मान्यतां स्वेच्छा कृत्याकृत्यकथा वृथा ॥४३ पापद्धिव्यसनी सोऽथ दवाग्निरिव संहरन् । असङ्खयान् प्राणिनः सङ्ख्यातीतां पापद्धिमार्जयत् ॥४४ रसनारसनाटयेन नटितोऽसौ ततः पिबन् । मधूनि बहुधा क्षौद्रं भक्षयन् सर्वभक्ष्यभूत् ॥४५ पापः मित्रैः सपीत्यासौ ततो धावति गायति ।। दिगम्बरो नृत्यति च तदकीर्तिस्तथैव च ॥४६ ततो निरङ्कुशलसदसनालौल्यसागरम् । तं कुमारं तथा वीक्ष्य पितरौ तेमतुस्तमाम् ॥४७ स्वपुत्रानार्यकारोंघासञ्जिताऽशुभसंहति- । सम्भावितोगनरकपातसम्भूतमन्युना ॥४८ अजस्रस्रवदुष्णोष्णबाष्पदूनास्यपक्कजा देवी · भूपमथोपेत्य सगद्गदमदोऽवदत् ॥४९॥ युग्मम् महापापादतो घोरान्नरकद्वारतो द्रुतम् । वार्यतां वार्यतां वत्सो मैव स्वामिन्नुपेक्ष्यताम् ॥५० राजाऽऽख्यद् देवि सुजनर्बहुशोऽप्येष वारितः । नास्मान्निवर्तते पापादुपदेश्यस्तदेष न ॥५१ ४७.४. 'तुत्तगाम् . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy