________________
२००
[९२-१०५
लीलावतीसारे राज्ञोचे पुत्र ये घसा जिनधर्मावकेशिनः । ते गरीयोदुःखलक्षाम्भोधिभ्रमनिबन्धनम् ॥९२ प्राप्ते नृत्वे सर्वधर्मकर्मनिर्माणकर्मठे । न हि निमन्तुजन्तूनां युक्तियुक्तं प्रमापणम् ॥९३ नक्तंदिनं शबरवदटव्यां वसतस्तव । राज्यश्रिया गुणः को नु चिन्तामणिवयस्यया ॥९४ नानाविधानि पेयानि खाद्यान्यपि च सन्ति ते । मलाविलैनिन्दितैश्च मद्यमांसैरलं ततः ॥९५ जीवघातेऽनार्यकार्ये यन्निमित्त तवोद्यमः । तल्लभ्यते धनेनापि स्वयं हिंसा ततो वृथा ॥९६ अहर्निशमिदं वत्स यदाखेटकखेटनम् । तच्च प्राचीनपुरुषमेरां लुम्पति मूलतः ॥९७ कुलमेरामतियतां कथं शास्ति विधास्यसि ।। स्वयं भिन्दन् स्वमर्यादां यादोवज्जडसङ्गतः ॥९८ तदनुत्तानचित्तेन प्रशस्तेन दिवानिशम् । देशकोशचतुरङ्गचमूचिन्ता विरच्यताम् ॥९९ किञ्चाहिस्रेण धर्मज्ञमिश्रेण भवताऽनघ ।
आचन्द्रार्कमिदं राज्यं प्राज्यं न्याय्यं प्रभुज्यताम् ॥१०० स्मित्वा जितारिणाऽभाणि साशकः प्रहरेन्न यः । तस्य वाणिजकस्येव न हि राजति राजता ॥१०१ अथाऽऽख्यद् विमलमतिर्मतिवैभवगीः पतिः । देवामात्यैः स्वप्रतिभाप्रतिभातमुदीर्यते ॥१०२ श्रूयते स्वामिभिः सम्यक् संप्रधार्य विधीयते । न पुनस्तेषु विज्ञप्त्या प्रसादः प्रतिहन्यते ॥१०३ तद्ब्रुवेऽस्मि कुमाराय सारं स्वानुभवास्पदम् । यदि सम्यक् श्रीकुमारोऽवधत्ते सुप्रसद्य मे ॥१०४ कुमारोऽप्यभ्यधाद् धीमन् स्वमेधोबुद्धमुच्यताम् ।
राज्ञां धियः सचिवधीः सध्रीची हि दिवाऽनिशम् ॥१०५ १०१.२. सासंकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org