________________
१९४
लीलावतीसारे
[१२-२५ वादिताननवादित्रा नृत्यन्ति च निरङ्कुशाः । रथ्यासु सुप्ता बदने लिह्यन्ते शुनकैरपि ॥१२ कादम्बरीपिबाः पापा मांसपेश्युपदंशिनः । क्रोडसट्टालावकीयं रसं च ब्रुवते सुधाम् ॥१३ क्रव्यादिनः क्रव्यकृते गोरि(?) गायन्ति वागुराम् । लान्ति द्रुमूलं श्रयन्ते रक्षन्त्यम्बु मृगाप्तये ॥१४ गलजालादिभिनन्ति निघृणा मत्स्यकच्छपान् । वीतंसपञ्जराद्यैश्च पापा हिंसन्ति पक्षिणः ॥१५ चणकादीन् विप्रकीर्य वशीकृतिकणानिव । विश्वास्य क्रूराः क्रोडादीन् क्षिण्वते क्षणतृप्तये ॥१६ भिन्दन्ति मधुजालानि सरघा घातयन्ति च । फलं च पञ्चोदुम्बर्या सन्धानानि च भुञ्जते ॥१७ अनन्तकायिकान् रात्रिभोजनं नवनीतकम् । कुक्कुटयण्डकरसं च रसयन्ति रसोत्तपः (१) ॥१८ पापीयांसः केऽप्यभक्ष्यं भक्षयन्ति न केवलम् । यागे छागादिकदनं वदन्ति च सुरश्रिये ॥१९ न मांसमद्ययोर्दोषो न राज्ञां मृगयादिषु । प्रवृत्तिरेषा भूतानां वायोस्तिर्यग्गतिर्यथा ॥२० किञ्च जीवो नास्ति तदभावात् कस्य शुभाशुभे । ततश्चाश्नीत मांसादि स्वैरमित्यूचिरे परे ॥२१ इत्यादिवाक्यः प्रवर्त्य हिंसादौ घस्मरान्नरान् । स्वयं पुरःसरीभूय नयन्ते नरके सुखात् ॥२२ तत्रातिदुःसहं दुःखं चिरं सोढ़वा कथञ्चन । तत उत्पद्य सिंहादौ पललास्वादलम्पटे ॥२३ दुष्कर्मभारिता । यान्ति नरके भैरवे पुनः ।। रसनाराक्षस्यवश्या कं न क्लेशं करोत्यहो ॥२४॥ युग्म रसनेन्द्रियलाम्पट्ये दृष्टान्तः स्पष्टमुच्यते ।
राजन् श्रीविजयसेन मन्त्र्यसौ जयशासनः ॥२५ १३.३. सट्टां. १४.२. वग्भुरां. २२.२. हिंसादो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org