SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ अष्टम उत्साहः अथापरेऽह्नि विजयसेनादीनां सभासदाम् । सुधर्मस्वाम्युपादिक्षत् सुधाधाराकिरा गिरा ॥१ स्पर्शनस्य स्वरूपादि राजन् न्यक्षेण कीर्तितम् । अधुना रसनस्यैतद् विस्तरेण प्रकीयते ॥२ जातु कस्यापि विषयसत्त्वरं करणान्तरम् । रसनं तु सदाऽप्येवं तत् तेष्वेतत् सुदुर्जयम् ॥३ यदुक्तम् - रसनाक्षेषु योगेषु मनो मोहश्च कर्मसु । व्रतेषु ब्रह्म चत्वारि जीयन्ते कृच्छ्रतः खलु ॥४ रसनास्वैरिणी चेयं रसान् विटनटानिव । यथेष्टमुपभुजाना न तृप्यति सुदृप्यति ॥५ रसाः पुनरविरुद्धविरुद्धात्मतया द्विधा । तत्राविरुद्धा घृताद्या विरुद्धा मदिरादयः ॥६ तत्राद्येष्वपि लाम्पट्यमनर्थाय . प्रजायते । सुधालौल्याच्छिरच्छेदं राहोराहुः पुराविदः ॥७ विरुद्धेषु तु वाञ्छाऽपि दुष्टा लौल्ये तु का कथा । नेष्टो जनङ्गमः स्पष्टुमप्याश्लष्टुं किमुच्यताम् ॥८ रसनारसलाम्पट्यपट्यावृतमतीक्षणाः अपेयाभक्ष्यरसिकाः पतन्ति नरकावटे ॥९ तथा हि - ऐहिकामुष्मिकापायकारिणीमपि वारुणीम् । रसज्ञा विवशात्मानः पिबन्ति च वमन्ति च ॥१० मदिरामदराक्षस्या ग्रस्तचैतन्यवैभवाः । पतन्ति दासपादेषु निन्दन्ति च गुरुमपि ॥११ Lila.-25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy