________________
१९२
लीलावतीसारे
[२९३-२९४
ततश्च - सपदि विजयसेनः क्ष्मापतिः श्रीसुधर्मव्रतिपतिसततोद्यज्ज्ञानदीपप्रयोगात् । प्रसृमरवरजातिस्मृत्युदारप्रदीपावगतनिजभवौकोजन्मभूमीचतुष्कः ॥२९३ सुगुरुवचसि साक्षात् प्रत्ययाद्वर्धमानप्रवरगुरुविवेकोल्लासिसंवेगवेगः । जिनमतनिधिना मां दुर्गते थ रक्षेत्यभिदधदयमूचे श्रूयतां तावदन्यत् ॥२९४॥ युग्मम्
इति श्रीनिर्वाणलीलावतीमहाकथेतिवृत्तोद्धारे लीलावतीसारे जिनाके स्पर्शनेन्द्रियविपाक-व्यावर्णनो नाम सप्तम उत्साहः * ॥
* ग्रं० ३२३ ॥ ६०॥ अर्हम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org