________________
२५२-२६५]
सप्तम उत्साहः
इत्थमायोधने योधनेतृसंहारकारिणि । भयादिव दवीयस्यां द्वाभ्यामपि जयश्रियि ॥२५२ शुभकरकराकृष्टकालपृष्ठान्निरित्वरैः नाराचैर्जर्जरीचक्रे सज्जितोऽपि रिपुद्विपः ॥२५३॥ युग्मम् पतयालं विलोक्येभं विमलोऽतुलसाहसः । विद्युदुरिक्षप्तकरणाद् ययौ स्वरथिनो रथम् ॥२५४ असमानमहो युद्धमन्याय्यं संप्रधारयन् । असमानभुजस्तम्भो राजा जयशुभक्करः ॥२५५ जयद्विपादवतीर्यारोह
रथमुत्तमम् । फलेग्रहावप्यनये तत्परा न हि सत्तमाः ॥२५६॥ युग्मम् महारथस्थितौ तौ च युयुधाते पुनर्भशम् ।
भोज्यान्तरादिव रुचिः स्फायते वाहनान्तरात् ॥२५७ तदा च चतुरङ्गया पृतनया तयोः संगरं निरीक्षितुमभोजिप्रे(?) मिलितवमवंश्यालिवत् । निरुद्धकरणान्तरं गतनिमेष] विघ्नेक्षणं प्रसूनभतपाणिकं दिवि दिवौकसां वृन्दमैत् ॥२५८
स्रगपाणिर्जयलक्ष्मीश्च तदानीं तो समासदत् । सजातीयमेलके हि निर्भीस्याद् भीरुकोऽपि हि ॥२५९ तस्मिन् समरसम्म मथ्यमानाब्धिभीषणे । शुभकरीयसामन्तदुर्गराजस्य कुम्भिना ॥२६० मदोन्मत्तेन विमलकूबरी कूबराग्रतः । गृहीत्वोल्लालितो व्योम्नि दिव्यानां प्राभताय नु ॥२६१॥ युग्मम् रथमुत्क्षिप्तमालोक्योत्तरितुं करणं ददत् ।। दुर्गराजस्य वीरेणासिना जघ्नेऽधिकन्धरम् ॥२६२ श्रीशुभङ्करराजस्य भत्यभूत्येन लीलया । विमलो द्विदलीचक्रे धिक् त्वगिन्द्रियवैशसम् ॥२६३ अत्रान्तरे जयलक्ष्म्या वरसग्दाम चिक्षिपे । दिव्यैः कुसुमवृष्टिश्च श्रीमज्जयशुभकरे ॥२६४ निस्वानेष्ववलन् घाता नान्दीतूर्यमपूर्यत ।
अर्हद्धर्मो जयत्यत्रेदशा यत्रेत्यघोष्यत ॥२६५ २५४.२. 'साहस. २६२.२. उत्तरीतुं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org