________________
१९०
लीलावतीसारे
[२६६-२७८ श्रीविमलवाहनस्य सैन्यं दैन्यभयाकुलम् । धीरयित्वा हतशेषं स राजाऽपृष्ठहस्तयत् ॥२६६ रणक्षेत्रं शोधयित्वोत्पाट्य वीरांश्च जीवतः ।। उत्पताकं मुदा प्राप स्वपुरं श्रीशुभङ्करः ॥२६७ रौद्रध्यानधनावेशात् स श्रीविमलवाहनः । रत्नप्रभायामुत्पेदे नारकोऽम्भोधिजीवितः ॥२६८ निमेषमानं तत्राणोर्न शर्मास्ते प्रकाशयत् । सन्ततं दुःखमेवैकं गाढान्धतमसं यथा ॥२६९ तदुःखमनुभूयासौ तत उद्धृतवांश्चिरात् । जम्बू द्वीपेऽत्र भरते नर्मदाविन्ध्यकानने ॥२७० चतुर्दन्तः श्वेतकान्तिः सप्ताङ्गयां सुप्रतिष्ठितः ।
विन्ध्याद्रिरेवादम्पत्योर्गजोऽभूदात्मभूरिख ॥२७१॥ युग्मम् उद्यद्दन्तकमत्युदारकटकं दाघिष्ठपादाद्भुतं
निर्यदानमहाप्रवाहसरितं वंशोन्नतिभाजितम् । अत्युच्चैस्तरकुम्भकूटघटनं शश्वदुरारोहणं.
विन्ध्याद्रेर्युवराजमेव मनुते को नाम नामुं द्विपम् ॥२७२ प्राग्वद् वशाकरोत्क्षिप्तशीताम्भःशीकरोत्करैः । सिच्यमानोभयपार्श्वः सुखनिद्रालसेक्षणः ॥२७३ हस्तिनीहस्तसंस्पृष्टशिश्नकस्ताभिरेव सुकुमारद्रुशाखाग्रापनीतक्षोणिरेणुकः ॥२७४ वारुकादत्तसरससल्लकीक्लुप्तभोजनः वारंवारं कराग्रेण तासां श्रोण्यादिकं स्पृशन् ॥२७५ अर्चन करेणुकाः काश्चिद् विनिद्रकमलोत्करैः । पराभिस्ताड्यमानश्च तैरव च तदीर्घ्यया ॥२७६ क्रीडंस्ताभिः सरसीषु स्फुटत्कमलराजिषु । जलेभहस्तावगूढामीर्ण्यन् वीक्ष्य करेणुकाम् ॥२७७ मोच्यमानस्तन्तुबद्धस्ताभिरेवातिवेगतः । मोचयंस्तास्तन्तुबद्धा बद्धाक्षपः क्षणादपि ॥२७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org