SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ लीलावतीसारे [२४४-२५१ चतुर्धा सेनया श्लिष्टो जयलक्ष्मै रणाङ्गणे । तौ राजानावमिलतां प्राक्प्रत्यक्सागराविव ॥२४४ रणतूर्याण्यवाद्यन्त वीरश्रीनृत्यहेतवः । त्रिलोकीकौतुकिश्रेणीमाह्वयन्ति प्रतिस्वनैः ॥२४५ ततश्च - धानुष्काः पूर्वमेके शरवणमभितोऽरोपयन्नन्तरिक्ष क्षिप्रक्षिप्रं क्षुरप्रैः किमपि लुलुविरे केशलावं तदन्ये । सर्वाङ्गं लग्नबाणाः क्षणमिह दधिरे श्वाविधां केऽपि केली केचित् तूत्खातबाणासृगरुणतनवः फुल्लसकिंशुकाभाम् ॥२४६ चर्मासिस्तम्भहक्काडमरुकनिनदैः क्षेत्रपान् स्मारयन्तः __ प्रोद्यन्नानाप्रहारार्चिततमतनवः पाटलास्रग्विणो नु । मूलाल्लूनोत्तमानास्तमस इव वपुर्नेकतां नाटयन्तो भ्रेमुश्चर्मिप्रवीरा रणवरवरिकां सर्वतो घोषयन्तः ॥२४७ ताारोहणभीषणा बहुविधैर्दिव्यायुधैर्दारुणा विश्वस्यापि हि जिष्णवस्तुरगिणो वेगात् समुत्तस्थिरे । यस्तागबलशालिभिः प्रतिभटा अप्युद्भटा दानवा जम्भारातिभयङ्करा अपि परोलक्षाः क्षणाज्जघ्निरे ॥२४८ वल्गन्ति स्म महारथा इव रथाश्चक्रायुधैर्दारितो सर्पदर्पपयोधिवैरिपटलीवक्षोदृषत्संपुटाः । यमन्थाचलविभ्रमै रणमहाम्भोधौ ददानैर्धमी स्तं निर्मथ्य समन्ततोऽपि विजयश्रीः स्राक प्रचक्रे स्वसात् ॥२४९ युद्धाब्धिस्थजयश्रिये द्विपमहापोतस्थिताः सादिनो धावन्तोऽभयतो ध्वजैः सितपटस्पृक्कूपकश्रीभृतः । केऽप्यास्फल्य मिथोऽरुजन् रणमहाम्भोधौ ममज्जुः परे ती.ऽन्ये परिरेभिरे जयरमा स्फूर्जद्यशोभूषणाम् ॥२५० प्रासर्पन् परितश्च रक्तसरितश्छिन्नप्रवीरानने ाकोशाम्बुजकाननाः सशफराः श्वेतेतरैश्चामरैः । दण्डभ्रष्टसितातपत्रपटलैः प्रोत्फुल्लसत्करवा नाराचासिकृपाणिकाप्रहरणैर्नागान्ववायाकुलाः ॥२५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002651
Book TitleLilavati Sara
Original Sutra AuthorJinratnasuri
AuthorH C Bhayani, N M Kansara
PublisherL D Indology Ahmedabad
Publication Year1983
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy