________________
सप्तम उत्साहः
१८७
२३१-२४३]
सहासङ्ख्याङ्गिभिदृष्ट्वा प्रधानपुरुषक्षयम् । तुर्येऽह्नि विमलोऽभाणीद् दूतेन प्रति-भू भुजम् ॥२३१ क्षयं निमन्तुजन्तूनां सामन्तानामपि क्षयम् ।। उपेक्षसे किमुर्वीश तटस्थः कांदिशीकवत् ॥२३२ राज्ञः सुतोऽसि चेत् सत्यं तद् युध्यस्व मया सह ।। आश्लेष्टुमभिलष्यन्ति मद्वाणास्त्वां स्वबन्धुवत् ॥२३३ प्रियङ्गुलतिकामेकां कृत्वा वो मत्पदोपदाम् । राज्यश्रियं कल्पलतामुपभुक्ष्वाकुतोभयः ॥२३४ इति दूतवचोहव्यनव्यक्रोधहुताशनः । वाचोज्वाला इवामुञ्चत् श्रीमान् जयशुभकरः ॥२३५ रे दूत भूताविष्टेनानात्मनीनेन पाप्मना । येनैष विश्वसंहारकारी वैरविषद्रुमः ॥२३६ रोपितः परिषिक्तश्च तागदुर्वाक्यवार्भरैः । स एव दारुणतमं फलमस्य प्रदास्यति ॥२३७॥ युग्मम् किञ्च - परदाराभिलाषोऽयं क्षेत्रियव्याधिरुद्धतः । तस्य नापैष्यति स्पष्ट विना मत्कशराग्निना ॥२३८ तद्याहि दूतायातोऽहं तवानुपदमेव हि । द्विधाऽपि स्वपदे स्थैर्य कारणीयः स किंप्रभुः ॥२३९ ततः स राजा सर्वोघमहाभेरीमवीवदत् । अरिमर्दनमुख्यांश्च सामन्तान् समनीनहत् ॥२४० हस्तिकाश्वीयपादातरथ्याः सर्वाङ्गवर्मिताः । उत्साहोघुषिताश्चाभुः समुद्रगुणिता इव ॥२४१ सर्वतः कल्पितं मत्तमारुह्य जयकुञ्जरम् । सैन्यमध्यं नृपो भेजे व्योममध्यमिवार्यमा ॥२४२ दूतोक्तिश्रुत्या निस्वानस्वानैर्वाचालयन् दिशः ।
आगात् सर्वाभिसारेण विमलोऽपि नरेश्वरः ॥२४३ २४०.३. अरिर्मदन'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org