________________
१८६
Jain Education International
लीलावतीसारे
तेनागाढप्रहारेण
चक्रे विजयवर्माऽपि व्ययधर्मा
२२५.३. पत्य.
वक्षः पृष्ठद्वयीभिदा । सपद्यपि ॥ २१७
ततः शुभङ्करब हर्षाद्वैतं तेन 'निर्धाटितमिव शोकाद्वैतं उभयोरपि सेनान्योस्तत् तादृग् वीक्ष्य साहसम् । वीरान्तराणां वक्तुं नु प्राप देशान्तरं रविः ॥२१९ प्रतीहारैवहार संज्ञया वारिते रणे । स्वं स्वं शिबिरमीयाते अनीकिन्यावुभे अपि ॥ २२० तृतीयेऽह्नि श्रीविमलः सूनुं विजयवर्मणः ।
1
स्थापयामास विजयसिंह दण्डाधिनायकम् ॥ २२१ अमानस्वामिसन्मानपितृवैराब्धितीर्णये जयेभयानपात्रं सोऽध्यारोहद् गुरुपौरुषः ॥ २२२ सर्वाभिसारेण तं चायान्तं सिंहमिवाहवे । प्रतीयेष श्रीसमरविजयो विजयोद्यतः ॥२२३ भयङ्करो यमस्यापि नारदस्य प्रियङ्करः । उभयोरप्यनीकिन्योः प्रावर्तत
महाहवः ॥ २२४
ततश्च प्रावहन् रक्तसरितः कूलमुद्द्भुजाः ( ? ) । तत्र पत्त्यैश्चकरिभिर्जलजन्तूयितं चिरम् ॥२२५ नाश्राम्यन् वाहनान्युच्चैरायुधानि न चाऽत्रुटन् । योधोत्साहो न व्यरंसीत् तथाऽभूत् केवलं त्वहः ॥२२६ तावुभावपि सेनान्यौ जिष्णु अपि महाभुजौ । निर्मथ्या पि रणाम्भोधि नापतुर्विजयश्रियम् ॥ २२७ एवं समरसंरम्भं दत्तस्तम्भमिवाक्षयम् ।
दर्श दर्श खिन्न इव रविरस्ताद्रिमाश्रयत् ॥ २२८ अवहारे प्रतीहारपूरुषैर्विहिते ततः ।
ते उभे अप्यनीकिन्यौ स्वं स्वं शिबिरमीयतुः ॥२२९ इत्येवं समरभरे भुवनैकभयङ्करे । अत्यक्रमीत् त्र्यहो नाभूत् कान्तः कोऽपि जयश्रियः ॥ २३०
व्यजृम्भत । त्वरेर्बले ॥२१८
For Private & Personal Use Only
[ २१७-२३०
www.jainelibrary.org