________________
२०४-२१६]
सप्तम उत्साहः
दैवात् तेन पततास्य शारिपट्टस्य मूर्धनि । जयशासनसेनानी स्वस्वामी हा न्यपात्यत ॥२०४ प्रासरन् हर्षकल्लोला विमलस्य बलोदधौ । शुभक्करबलाब्धौ तु शोकौर्वानलहेतयः ॥२०५ यातेऽस्तं शूरतिलके सेनान्यां जयशासने । तदुःखदुःखित इव सूरः क्षेत्रान्तरं ययो ॥२०६ प्रतिषिद्धे ततो युद्धसंरम्भे वेत्रिपाणिभिः । वरूथिन्यावुभे स्वं स्वं स्कन्धावारमुपेयतुः ॥२०७ द्वितीयेऽह्नि जयशुभकरेण नृपभास्वता । भूपः समरविजयः सेनानीत्वेऽभ्यषिच्यत ॥२०८ ततोऽसौ समरोत्साहोदञ्चद्रोमाञ्चकञ्चुकः । जयकुञ्जरमारूढश्चतुरङ्गचमू वृतः
॥२०९ विजयश्रीपरीम्भसंरम्भोत्तानमानसः वैरिकाननदावाग्निः समित्क्षेत्रमुपागमत् ॥२१०॥ युग्मम् तं चागच्छन्तमालोक्य जितकाशितयोन्मदः । विजयवर्माऽपि गजाधिरूढोऽभ्यैज्जयश्रिये ॥२११ ततः पुनः समित्तूर्योत्तालतालविलासतः । नृत्यत्कबन्धप्रबन्धं रणनृत्यमवर्तयत् ॥२१२ गण्डस्थलगलद्दानसरितौ पृतनेशिनौ । दन्तादन्ति हस्ताहस्ति हस्तिनौ तौ प्रजहतुः ॥२१३ ततः समरविजयाङ्गरक्षाक्ष्यदीक्षितैः । विजयवर्मकरिणः शिरोऽच्छिद्यत पत्रवत् ॥२१४ स्वगजं छिन्नशिरसं विजयो वीक्ष्य साहसात् । विद्यदुत्क्षिप्तकरणं ददौ प्रतिगजं प्रति ॥२१५ तमायान्तं श्रीसमरः सद्यः कुन्तेन वक्षसि ।
उभयापाणि जग्राह प्रीतदेवप्रसादवत् ॥२१६ २०६.४. शूरः . Lila.-24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org