________________
लीलावतीसारे
[१९९-२०३ प्रयाणैरनवच्छिन्नैरासन्नीभूय भूयसा । कोपाटोपेनावतस्थे राजा विमलवाहनः ॥१९१॥ युग्मम् अथ स्वसैन्ये सेनान्य सेनान्यं शक्तिसम्पदा । भूपं विजयवर्माणं चकार विमलः प्रभुः ॥१९२ ततो विजयवर्माऽसौ साक्षान् मान इव प्रभोः । प्रवादितरणतूर्य युधेऽधावद् गजस्थितः ॥१९३ तमथायान्तमालोक्य दण्डेशो जयशासनः । शुभङ्करस्य नृपतेः प्रताप इव मूर्तिमान् ॥१९४ चतुर्धा सेनयाऽन्वीतो द्विपेन्द्रमधिरूढवान् । स्फुरन्निस्वाननिस्वान सहसा सम्मुखोऽभवत् ॥१९५॥ युग्मम् ततश्च - तुरगखरखुरोत्थधूलिधूम्यालहरिनिरन्तररुद्धरोदसीकः । शिततरकरतालकुन्तमुख्यप्रहरणसंहतिकान्तिलोलदर्चिः ॥१९६ रभसवशविधावमानपत्तिद्विपरथघोटकनैकवन्ययूथः । । अतिगुरुतरहेतिचक्रवालप्रसभविनाशितसत्त्वसङ्घभीष्मः ॥१९७ प्रसृमररणतूरपूरनादस्फुरदुरुकीचकपर्वघोषघोरः गगनतलवहत्पृथत्कनानाकृतिनिशितोग्रफलस्फुलिङ्गभीमः ॥१९८ विमलजयशुभक्कराभिधानस्फुरदवनीभृदनीककाननान्तः । प्रधनवनहुताशनः समन्ताद् भुवनभयङ्कर एव संप्रलग्नः ॥१९९॥
चतुर्भिः कलापकम् इत्थं
समरसंमर्देऽसृक्कर्दमितभूतले ।। तलवर्गप्रमादेन जयशासनकुम्भिनः ॥२०० कक्षा क्षुरप्रबाणेन सद्यो विजयवर्मणा । अच्छिद्यतायुर्नाडीव कदलीदललीलया ॥२०१ ततो मूलग्रहाभावात् शारिपट्टः सयोद्धकः (१) । जीर्णचैत्यशिखरवन् निपपात महीतले ॥२०२ तदानीं चानावृत्ताङ्गः स कुम्भी जायशासनः ।
प्रहतो रिपुनाराचैर्यपतत् पशुभिर्द्ववत् ॥२०३ २०२.२. शारिपट्ट.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org